Book Title: Dropadi Swayamvaram
Author(s): Jinvijay, Shantiprasad M Pandya
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 49
________________ विजयपाल- विरचितं सूत्रधारः - मा कार्षीविषादम । वृथैव तैश्यं शृगालजागरः प्रारब्धः । न खलु बहुभिरप्याखुचर्मभिः सिन्धुराधिराजबन्धननिबन्धनं दाम निगडयते । न च गगनाङ्गणावगाहसम्भृताभियोगैर्म मनातिमैरपि खद्योतैस्तिमिरमलिनभुषननिर्मलीकरणकमठस्य कर्मसाक्षिणः कर्म निर्मीयते । तदलं चिन्तया । यतदुष्करं करणं कुर्वन्नुर्वीपालात्प्रसेदुषः । भवानेव सखे ! जिष्णुर्लक्ष्मों सम्प्राप्स्यतिः क्षणात् ॥३॥ ४ पारिपार्श्वकः - ( सहर्ष ) (घ) इमिणा अज्जस्स वयणेण निच्चितो दाणि संवुत्त म्हि । ताब पढमं मं पत्थुदरूवयनामनिवेयणेण पसीददु अज्जो । सूत्रधारः - अस्त्येव श्रीकविराजात्मजमहाकविसिद्धपालस्य सूनुना महाकविन विजयपालेन निबद्धं द्रौपदीस्वयंवराभिधानं वीराद्भुतरसप्रधानं नाटकम् | निपध्ये बुबा गीयते) - (च) उम्मायकरो भुअणे जयइ बिंहू जस्स संनिहाणेण । दुल्लक्खं पि हु भिदइ लीलाए जणमणं मयणो ॥ ४ ॥ सूत्रधारः - ( आकर्ण्य ) साधु प्रक्रान्तं भरतविद्याभिनय कुशेशय परिशीलनशीलालिभिः । यदनया रजनिजानिवर्णनपरया ध्रुवया राधावेध - समुद्यतधनन्जय साहाय्यक कृताभियोगस्य मदगर्जदति दुर्जय दुर्जन. जनदलननिपुणमाया प्रयोगस्य तत्रभवतः कैटभारेः प्रवेशः सूचितः । तदेह आवामप्यनन्तरकरणीयाय सज्जीभवावः । ( इति निष्क्रान्तौ । ) (घ) अनेन आर्यस्य वचनेन निश्चिन्त इदानी संवृत्तोऽस्मि । तावत्प्रथमं मां प्रस्तुत - रूपकनामनिवेदनेन प्रसीदतु आर्यः । (च) उन्मादकरो मुवने जयति विधुर्यस्य सन्निवानेन । दुर्लक्ष्यमपि खलु भिनत्ति लीलया जनमनो मदनः || ४७

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90