SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ विजयपाल-विरचितं ॥ आमुखम् ॥ (ततः प्रविशति कृष्णः।) कृष्णः- (विमृश्य स्वगतं सहर्ष) तस्मै देया त्वयाऽसौ खलु निजतनया यो धनुर्वेदधीरो राधावेधं विधत्ते द्रुपदनरपतेः पूर्वमादिष्टमेवम् । . .. दम्भोलिस्तम्भशोभासुभगभुजयुगभ्राजिपार्थानुयाता स्ते चानीता इहैवानिलतनयसुतं प्रेष्य पाण्डोस्तनूजाः ॥५॥ तदिदं तावत्सुविहितम् । परमद्यापि कियदवशिष्यते । भवतु तावत् । आयातु भीमः । (ततः प्रविशति भीमः।) (भीमः परिकम्य यथोचितं सम्भावयति ।) भीम:- (सविनग) अयि भगवन् ! वीरावतंसकंसविध्वंस-लब्धप्रशंस ! किमिति वयमाकारिताः । आदेशदानेन प्रसीदतु भगवान् । कृष्ण:- वत्स ! पाण्डवाभ्युदयादन्यन्न वयं कदा किन्चिदप्युपक्रमामहे । ततः परशुरामप्रसादीकृतपञ्चशरीमध्याद् राधावेधाय सूतसूता. द्विशिखद्वयं योचनीयम् । तच्चादाय अलक्षितवेषविशेषविधातृभिः स्वभ्रातृभिः सह कृतार्थेन भवता राधावेधमण्डपोऽलङ्करणीयः । वयमपि सम्प्रति तत्र राधावेधनाटके द्रुपदनरपतेः परिपार्श्ववर्तिनो भवामः । (इति निष्क्रान्तः ।) भीमः- (परिक्रम्य पुरोऽवलोक्य च) अये ! अमानदानसानन्दबन्दिसन्दोहसङ्कलम् । कर्णस्य मन्दिरद्वारमनुक्तमपि लक्ष्यते ॥६॥ (इति परिक्रम्य द्विजरूपधारी तारस्वरेण वेदोदगारं करोति । ) (ततः प्रविशति प्रतीहारपुरोहिताभ्यामनुगतो दानास्थानमण्डपस्थः कर्णः ।) कर्णः- (सोत्कण्ठं) चतुर्युगायमाना मे चतस्रो नालिका गताः । . सम्भावयत्यपूर्वोऽर्थी नाद्याध्यद्य कुतोऽपि माम् ॥७॥
SR No.005715
Book TitleDropadi Swayamvaram
Original Sutra AuthorN/A
AuthorJinvijay, Shantiprasad M Pandya
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1993
Total Pages90
LanguageGujarati
ClassificationBook_Gujarati
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy