Book Title: Dharmopadesh Karnika
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 5
________________ धर्मोपदेश ॥ ३ ॥ ++ 1000940 भोः पथिकाः ! युष्माभिः कथं युध्यते ? यूयमत्रागच्छत ? पानीयं च पिबत ? यतः - स्वच्छं सज्जनचित्तवल्लघुतरं दीनार्थिवत् शीतलं । पुत्रालिंगनवत्तथापि मधुरं बालस्य संजल्पवत् ॥ एलालां चिलवंगचंदन लसत्कपूर पूरै मिलत् । पाटल्युत्पलकेतकीसुरभितं पानीयमानीयतां ॥ १ ॥ एवंविधं पानीयं यूयं पिवत ? पश्चादहं भवतोर्वादं स्फेटयिष्यामि इति श्रुत्वा तस्या विनयादिगुणै रंजितांस्ते वाडवरूपधारिणस्त्रयोऽपि देवास्तत्रैवागताः ततः क्षणं विमृश्य तां जरतीप्रति शीतकालो जजल्प हे मातस्त्वं ब्रूहि ? कीदृशोऽं ? शुभः अशुभो वा ? तदा तयोक्तं हे पुत्र ! त्वं श्रेष्टः, त्वत्समोऽन्यः कोऽपि न विद्यते, यतो भोगस्य कारणं शीतकालः. यस्मिंश्चागते सप्त तकारा भोगाय भवंति यतः - तैलं वापनतांबूलं । तुली ताम्रमयी घटी ॥ तप्तभोज्यं तरुण्यंगं । शीते सप्तं सुखा वराः ॥ १॥ तत्श्रुत्वा स शीतकालदेवः संतुष्टो जातः ततो ग्रीष्मेण पृष्टं, हे मातस्त्वं वृद्धा, सर्वेषां गुणागुणौ च जानासि, अतः कथय कोदृशो धर्मकालः ? इति पृष्टे सा वृद्धा जजल्प, हे भ्रातः ! हे पुत्र ! त्वं ज्येष्टः, यतस्त्वयि समागते सर्वेऽपि तरवो नवपल्लवा भवंति, सहकारादि मनोऽभीप्सितफलानि च प्राप्यंते, सप्त चकाराश्च भोगाय भवंति यतः - चंदनं चतुरद्वारं । चामरं 9%D•*$EXP कर्णिका ॥ ३ ॥ Scanned by CamScanner

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 81