Book Title: Dharmaratnakarandaka
Author(s): Vardhmansuri, Munichandravijay
Publisher: Shardaben Chimanbhai Educational Research Centre

View full book text
Previous | Next

Page 321
________________ २९४ आचार्य श्रीवर्धमानसूरिरचिते स्वोपज्ञटीकासहिते धर्मरत्नकरण्डके ततो वरधनुइँते, द्वितीये वासरे यथा । गन्तव्यं दूरमावाभ्यां, किं कुमार! विलम्ब्यते ? ॥१४८॥ बन्धुमत्या निजं सर्व-मभिप्रायं निवेद्य च । निर्गच्छावो यथाशक्त्या, स्वाभिप्रेतं दिगन्तरम् ।।१४९॥ तथा कृत्वा गतौ तस्मा-त्स्थानाच्च ग्राममेककम् । प्रविष्टस्तत्र नीरार्थं, वरधनुस्तत: क्षणात् ।।१५०॥ आगत्य प्रवदत्येवं, ग्राममध्ये श्रुतं मया। सुरङ्गया प्रयातस्य, ब्रह्मदत्तस्य सर्वत: ॥१५१॥ दीर्पण निजकैः पुम्भि-र्मार्गा बन्धापिता: किल । तत्कुमारोत्पथेनावां, प्रगच्छावस्तथा कृतम् ॥१५२।। उन्मार्गेणाथ गच्छन्तौ, प्रविष्टौ तौ महाटवीम् । ततो न्यग्रोधवृक्षाधो, मुक्त्वातीव तृडर्दितम् ॥१५३॥ कुमारमगमन्नीर-हेतोर्वरधनुः स्वयम् । भ्राम्यंस्तत्र दिनस्यान्ते, दीर्घनिर्युक्तकैनरैः ॥१५४॥ यमदूतैरिवालोकि, वरधनुस्ततस्तकैः । हन्यमानश्च दूरस्थ:, सङ्केतं कृतवानसौ ॥१५५॥ ब्रह्मदत्तस्ततस्तूर्णं, नष्टवांस्तत्प्रदेशत: । पतितश्च महाभीम-मरण्यमतिदुर्गमम् ॥१५६॥ ततस्तृषाक्षुधाक्रान्तो, व्यतिक्रम्य महाटवीम् । तृतीये दिवसेऽपश्य-त्तत्रैकं किल तापसम् ॥१५७|| तदर्शनेन सञ्जाता, जीविताशा ततस्तकम् । पप्रच्छ च यथा कुत्र, भगवन्नाश्रमस्तव ॥१५८।। तेनाप्यावेद्य नीतश्च, पार्श्वे कुलपतेरसौ । नत: कुलपते: पाद-पद्मयुग्मं नताङ्गकः ।।१५९।। पृष्टस्तेन यथा वत्स!, कथमत्रागमस्तव । तेनापि मूलत: सर्वो, वृत्तान्त: कथितो निजः ॥१६०॥ तत: कुलपति: प्राह, भो! वत्सक!, पितुस्तव । भवामि ब्रह्मभूपस्य, पितृव्योऽहं कनिष्ठकः॥१६१।। अतस्तदीय एवाय-माश्रमो वत्स! सर्वथा । तस्मात्तिष्ठ त्वमत्रैव, सोऽपि तस्थौ तथैव च ॥१६२।। तिष्ठस्तत्र सुखेनासौ, धनुर्वेदादिका किल । तापसस्वामिना तेन, ग्राहित: सकला: कला: ॥१६३॥ तावच्च वृषभाह्लादी, शरत्काल: समाययौ । निष्पन्नशस्यसम्पद्भि-स्तोषिताशेषपामरः ॥१६४|| अन्यदा च समाचेलु-स्ते तापसकुमारका: । कन्दमूलफलाद्यर्थं, विकटामटवीमभि ॥१६५|| तैश्च सार्धं कुमारोऽपि, वार्यमाणोऽपि तापसै: । गतस्तत्र महारण्ये, कौतुकाक्षिप्तमानस: ।।१६६॥ पुष्पफलसमृद्धानि, वीक्षमाणो वनानि सः । तत्र हस्तिनमद्राक्षी-न्मत्तं वनप्रचारिणम् ॥१६७|| तं दृष्ट्वा दूरविस्तारि, चकार गलगर्जितम् । तत्समाकर्ण्य वेगेन, चलितस्तन्मुखं गजः ॥१६८॥ कुमारोऽपि ततस्तस्य, गजस्याभिमुखं जवात् । कृत्वा विण्टलिकां स्वीय-मुत्तरीयकमक्षिपत्॥१६९।। करिणापि कराग्रेण, तत्समादाय सत्वरम् । व्योमनि क्षिप्तमत्यर्थ-मित्येवं स पुन: पुन: ॥१७०॥ नीत: खेदं कुमारेण, यावत्कोपवशं गतः । तावदुत्पत्य तत्स्कन्ध-मारूढः प्रौढविक्रमः ॥१७१॥ ततो नानाप्रकाराभिः, क्रीडाभि: कुमरश्चिरम् । तं गजं श्रममानीय, मुमोच गतकौतुकः ॥१७२।। तत: प्रतिपथेनैव, प्रविष्टो गन्तुमुच्चकैः । मूढपूर्वादिदिग्भाव, इतश्चेतश्च पर्यटन् ॥१७३। प्रेक्षते स्म नदीतीरे, पुरमेकं पुरातनम् । पतितानेकगेहौघ-भित्तिमात्रोपलक्षितम् ॥१७४|| यावत्तदर्शनोद्भूत-कौतुक: प्रविलोकयन् । सर्वतो याति वेगेन, कुमारस्तावदीक्षते ॥१७५|| पार्श्वमुक्तासिमुद्दाम-विस्फुर्जच्चन्द्रखेटकम् । नीलाभं सुन्दराकार-मेकं वंशकुडङ्गकम् ।।१७६|| Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466