Book Title: Dharmaratnakarandaka
Author(s): Vardhmansuri, Munichandravijay
Publisher: Shardaben Chimanbhai Educational Research Centre

View full book text
Previous | Next

Page 409
________________ ३८२ आचार्य श्रीवर्धमानसूरिरचिते स्वोपज्ञटीकासहिते धर्मरत्नकरण्डके दृष्ट्वा दूयते नागश्रीस्तदेहिनी, श्यामितवक्रीकृतमुखी न गृहकार्येषु सम्यक्प्रवर्तते, एवं व्रजति कालः। अन्यस्मिन् दिवसे गुणधरश्रेष्ठिपुत्रो गुणसार: कृष्णभुजङ्गमेन दष्टः, समाहूता गारुडिका:, प्रयुक्ता मन्त्रागदादयः, न जात: कोऽपि विशेषः । तत: पटहशब्देनाकारि घोषणा नगरे, यथा यो गुणसारं जीवापयति तस्मै श्रेष्ठी शतसहस्रं ददाति, निवारित: पटहको नागदत्तेन, गृहीत्वा योगिना दत्तं मणिरत्नं गत: स श्रेष्ठिसमीपं, प्रक्षाल्य मणिरत्नं 'पायितस्तज्जलं गुणसार:, नष्टो विषविकारः,संवृत्तश्च स प्रगुण:, तुष्टेन श्रेष्ठिना दत्तं तस्मै सुवर्णशतसहस्रं, गतो गृहीत्वा नागदत्तो निजभवनं, सविशेषं च समाराधयति जननीचरणयुगलम्, अन्यस्मिन् दिने विमनस्का दुर्मना विमुक्तदीर्घनि:श्वासा विच्छायवदनकमला मञ्चकगता दृष्टा नागश्री गदत्तेन, पृष्टा च प्रिये ! किं तव बाधते? तया भणितं शिरोवेदना, नागदत्तेन भणितं किंनिबन्धना ? तया भणितमनक्षनिबन्धना, यतस्त्वं परिहतसकलगृहव्यापार: कृतकरतलाञ्जलिर्जनन्या: पुरत: किङ्कर इव किं करोमीति वाणस्तिष्ठसि! किं तवैवैकस्य जननी ? किमन्यो जनो नभस्तलान्निष्पतित:? एभिरन:र्ध्वलितज्वलनपतितमिव दह्यते मम शरीरकं, प्रणष्टा निद्रा, न रोचते भोजनं, बाढं बाधते शिरोवेदना, नागदत्तेन भणितं श्रूयतां प्रिये ! परानक्षैरात्मानं कदर्थयसि, अनक्षबहुलकुम्भकारं चानुकरोषि ? तया भणितं के एषोऽनक्षबहुल: नागदत्तेन भणितं श्रूयतां प्रिये! अनक्षबहुलकुम्भकारकथा अस्ति सकलमहीवलयतिलकभूतं कुसुमपुरं नाम नगरं, तस्मिन् कुम्भप्रियो नाम कुम्भकार: परिवसति । स पुनर्यदि कश्चिदघटमानकं ब्रूते तदाकर्ण्य नितरामनक्षभरभृतमानसष्टक्कराभिर्निजमस्तकं.चूर्णयति, तत: कृतं लोकैस्तस्य गुणनिष्पन्नमनक्षबहुल इति नाम, तदेव च प्रसिद्धिं गतं, तस्य च गृहे समस्ति विशाला शाला, वसन्ति च तस्यां नानादेशागता: कार्पटिकादय:, वदन्ति च रजन्यामघटमानकानि टक्करशतानि, अनक्षवशविगतनिद्रो रोषवशपरिगतश्चूर्णयति टक्कराभिरनक्षबहुलो निजमस्तकम् । तथा कदर्थयन्तमात्मानं दृष्ट्वा जनको भणितस्तनयैः, तात ! तव गृह एवानक्षाणामन्तो नास्ति, विशेषतो नगरमध्ये, ततो यद्यनक्षपरिहारेण प्रयोजनं तदाटव्यां गृहं क्रियतां ? प्रतिपन्नमिदं तेनापि, गतास्तं गृहीत्वा तत्तनया: कान्तारमध्यसंस्थित पर्वततलासन्नां स्वच्छसलिलपरिपूर्णामेकां सरसिकां, कृतं तदासन्ने कुटीरकं, बहुदिनयोग्यसम्बलं १ पायितस्तु जलं गुणसारः, विषविकारं प्रगुण: संवृतः, तुष्टेन-BJC । २ भणितमनक्षनि BIC । भणितमिानि' मु. । ३ जनकं-BJCI Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466