________________
३८२
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज्ञटीकासहिते धर्मरत्नकरण्डके
दृष्ट्वा दूयते नागश्रीस्तदेहिनी, श्यामितवक्रीकृतमुखी न गृहकार्येषु सम्यक्प्रवर्तते, एवं व्रजति
कालः।
अन्यस्मिन् दिवसे गुणधरश्रेष्ठिपुत्रो गुणसार: कृष्णभुजङ्गमेन दष्टः, समाहूता गारुडिका:, प्रयुक्ता मन्त्रागदादयः, न जात: कोऽपि विशेषः । तत: पटहशब्देनाकारि घोषणा नगरे, यथा यो गुणसारं जीवापयति तस्मै श्रेष्ठी शतसहस्रं ददाति, निवारित: पटहको नागदत्तेन, गृहीत्वा योगिना दत्तं मणिरत्नं गत: स श्रेष्ठिसमीपं, प्रक्षाल्य मणिरत्नं 'पायितस्तज्जलं गुणसार:, नष्टो विषविकारः,संवृत्तश्च स प्रगुण:, तुष्टेन श्रेष्ठिना दत्तं तस्मै सुवर्णशतसहस्रं, गतो गृहीत्वा नागदत्तो निजभवनं, सविशेषं च समाराधयति जननीचरणयुगलम्, अन्यस्मिन् दिने विमनस्का दुर्मना विमुक्तदीर्घनि:श्वासा विच्छायवदनकमला मञ्चकगता दृष्टा नागश्री गदत्तेन, पृष्टा च प्रिये ! किं तव बाधते? तया भणितं शिरोवेदना, नागदत्तेन भणितं किंनिबन्धना ? तया भणितमनक्षनिबन्धना, यतस्त्वं परिहतसकलगृहव्यापार: कृतकरतलाञ्जलिर्जनन्या: पुरत: किङ्कर इव किं करोमीति वाणस्तिष्ठसि! किं तवैवैकस्य जननी ? किमन्यो जनो नभस्तलान्निष्पतित:? एभिरन:र्ध्वलितज्वलनपतितमिव दह्यते मम शरीरकं, प्रणष्टा निद्रा, न रोचते भोजनं, बाढं बाधते शिरोवेदना, नागदत्तेन भणितं श्रूयतां प्रिये ! परानक्षैरात्मानं कदर्थयसि, अनक्षबहुलकुम्भकारं चानुकरोषि ? तया भणितं के एषोऽनक्षबहुल: नागदत्तेन भणितं श्रूयतां प्रिये!
अनक्षबहुलकुम्भकारकथा
अस्ति सकलमहीवलयतिलकभूतं कुसुमपुरं नाम नगरं, तस्मिन् कुम्भप्रियो नाम कुम्भकार: परिवसति । स पुनर्यदि कश्चिदघटमानकं ब्रूते तदाकर्ण्य नितरामनक्षभरभृतमानसष्टक्कराभिर्निजमस्तकं.चूर्णयति, तत: कृतं लोकैस्तस्य गुणनिष्पन्नमनक्षबहुल इति नाम, तदेव च प्रसिद्धिं गतं, तस्य च गृहे समस्ति विशाला शाला, वसन्ति च तस्यां नानादेशागता: कार्पटिकादय:, वदन्ति च रजन्यामघटमानकानि टक्करशतानि, अनक्षवशविगतनिद्रो रोषवशपरिगतश्चूर्णयति टक्कराभिरनक्षबहुलो निजमस्तकम् । तथा कदर्थयन्तमात्मानं दृष्ट्वा जनको भणितस्तनयैः, तात ! तव गृह एवानक्षाणामन्तो नास्ति, विशेषतो नगरमध्ये, ततो यद्यनक्षपरिहारेण प्रयोजनं तदाटव्यां गृहं क्रियतां ? प्रतिपन्नमिदं तेनापि, गतास्तं गृहीत्वा तत्तनया: कान्तारमध्यसंस्थित पर्वततलासन्नां स्वच्छसलिलपरिपूर्णामेकां सरसिकां, कृतं तदासन्ने कुटीरकं, बहुदिनयोग्यसम्बलं १ पायितस्तु जलं गुणसारः, विषविकारं प्रगुण: संवृतः, तुष्टेन-BJC । २ भणितमनक्षनि BIC । भणितमिानि' मु. । ३ जनकं-BJCI
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org