________________
३८१
प्रयोजनं कथितो मया निजप्रतिज्ञाविशेष:, तेन भणितमस्त्यत्र तावदुपाय:, केवलं सत्त्वसाध्या सिद्धि:, मयोक्तं कीदृशी ? तेनावाच्यष्टोत्तरशतवारं मन्त्राक्षराणि जपित्वा निजशिरसा गिरिकन्दरोदरो नाम यक्ष: पूजयितव्य:, पश्चादसौ सत्त्वानुरूपं वरं वितरति, प्रतिपन्नं तन्मया, गृहीतो मन्त्रः, कृतं बलिविधानं, गतो गिरिकन्दरोदरमन्दिरं, पूजितो यक्ष:, कृतो मन्त्रजाप:, आकृष्टं कोशाद्यमजिह्वाकरालं करवालं, वाहितं निजकन्धरायां, निरुपमसत्त्वगुणावर्जितमानसोऽर्धच्छिन्न एव शिरसि प्रत्यक्षीभूतो यक्ष:, भणितोऽहमनेन भण ते किं प्रियं करोमि ? मया भणितमसूत्रपटकरणसामर्थ्यं देहि ? तेनोक्तं भविष्यति वत्स ! ते चिन्तितम् ।
तत: सम्पूज्यतं यक्षपरंपरितोषमुद्वहन् समागतोऽहंस्वभवनं, प्रणम्य राजानं निषण्णोऽहमुचितासने, पृष्टोऽहं मन्त्रिणा किं सम्पूर्णा ते प्रतिज्ञा ? मया भणितमेवमेतत् । तत: सकलसभासमक्षं विक्षिप्य गगनाङ्गणे करयुगलं दत्तं देवदुष्योपमं वस्त्रयुगलं नरपतये, एवं मन्त्रिसामन्तादिभ्योऽपि, तुष्टो राजा, गुणग्राहिणी जाता नरपतिसभा, भणितोऽहं- राज्ञा- किं तव प्रियङ्करोमि? मया भणितं वर्षमेकमकरं कुरुष्व जनपदमिमं? प्रतिपन्नं राज्ञा, दत्तश्च प्रवरग्रामपञ्चकसहित: सकलविषयसार:, सुखसङ्गमो नाम मह्यं ग्राम:, वितीर्णश्च यदृच्छाचारः, एवमेषां मे शक्तिरीदृशी जातेति । ततोऽभिनन्दितो मया कुलपुत्रकः, प्रशंसितो बहुप्रकार, प्रस्थितौ तत: स्थानाद् द्वावप्यावां, लविता सप्तरात्रेणाटवी, गतोऽसौ स्वस्थानम्, अहमपि प्रयोजनवशेनात्र समागतः, तदेवं विनापि सूत्रेण दृष्टो मया क्रियमाण: पट:, अर्थोपार्जनमपि व्यवसायिनां नातिदुष्करं, व्यवसायमेव पुरुषाणां गुरुकं भाण्डमूल्यं, यत:
आढत्ता सप्पुरिसेहिं, गुरुयववसायदित्तहियएहिं ।
कज्जारंभा होहिंति, निप्फला किं चिरं कालं ? ॥१॥ मया भणितमेवमेतत्, नास्त्यत्र सन्देहः, निवर्तितोऽहमेतस्मादविधिमरणात्, व्रजामि साम्प्रतं स्वस्थानं, यौगिकेन भणितं वत्सतया गुरुजनपराधीनतया समावर्जितं मे हृदयं, गृहाणेदं स्थावरजङ्गमविषापहारकं प्रधानमणिम्, अनुग्रह इति मन्यमानेन प्रतीच्छितो नागदत्तेन गतो यौगिक: स्वस्थानं, नागदत्तोऽपि निजनगरमागतः, कथित: सर्वोऽपि सविस्तरो निजवृत्तान्तो जनन्या:, तया भणितं वत्स! गच्छतु द्रविणजातं, त्वया विद्यमानेन भूयोऽपि भूरि द्रव्यं भविष्यति, धन्याहं यया पुनरपि तव मुखकमलमवलोकितमिति भणित्वा स्नेहसारं निवेशितो निजोत्सङ्गे, चुम्बितो मूर्धनि नागदत्त:, चिन्तितं तेनाहो स्नेहपरता जननीहृदयानां, अहं पुन: शिलासङ्घातकठिनमानसो यस्तथापकर्ण्य जननी देशान्तरं प्रस्थितः, प्राप्तमिहलोक एव मया दुर्नयफलं, साम्प्रतं परविनयेन समाराधयामि मातरमिति विचिन्त्यैवं चेतसि कृतनिश्चयो मातु: पार्श्ववर्ती प्रतिदिनं पर्युपास्ते, मातरि स्नातायां स्नाति, भुक्तायां भुङ्क्ते, किम्बहुना? सर्वप्रयोजनेष्वपि सततमानुकूल्येनैव वर्तते, एतद्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org