Book Title: Dharmaratnakarandaka
Author(s): Vardhmansuri, Munichandravijay
Publisher: Shardaben Chimanbhai Educational Research Centre
View full book text ________________
अधिकार १८ / श्लोक ३३७-३३८ / अनक्षबहुलकुम्भकारकथा
३८३
३८३
च समर्प्य मुक्त्वा तत्र जनकं नगरमागतास्तनया: सोऽपि तत्र कर्दमं मर्दयित्वा भाण्डानि कर्तुमारब्धः, तत्पुत्रा अपि समये समागत्य गृहीत्वा भाण्डानि नगरे विक्रीणन्ति । एवं च व्रजति काल:
अन्यदा मृगयायै निर्गतो महाकान्तारमनुप्रविष्टो राजा, निष्ठितं सलिलं, पिपासित: पृच्छति समासन्नपुरुषान, यथा भो भो: किमस्त्यत्र जलसम्भव: ? तैरुक्तमस्ति, इत: समासन्ना सरसी, तत्र गम्यतामित्युक्ते गतो राजा, दृष्ट्वा राजानं ससम्भ्रममभ्युत्थितः कुलाल: दत्तमासनं, निषण्णो राजा, आनीत: स्वच्छशीतलसलिलपरिपूर्ण: करबकः, पीतं पय: पृथ्वीपतिना, 'जातश्च स स्वस्थमानस:, परितुष्टः कुलालस्य, पृष्टश्च स्नेहसारं भद्र ! किंनिमित्तमेकाकी कान्तारे तिष्ठसि ? तेनोक्तमनक्षवचनश्रवणपरिहाराय, राज्ञा भणितं यद्येवं तदागच्छ मया सार्धं नगरे, तथाहं करिष्यामि यथा न कोऽप्यनक्षान् समुल्लपति । तेन भणितमेवं भवतु, चलितो नगराभिमुखं नगरमासन्ने च दृष्टा राज्ञा सागराभिधानस्य वणिजो दुहिता खरकाभिधाना कर्कन्धूफलानि चिन्वन्ती, पृष्टो राज्ञा मन्त्री कैषा कस्य वा सुता? कथित: सर्वोऽपि मन्त्रिणा वृत्तान्त:, प्रविष्टा नगरं, धृत: कुम्भकारो निजमन्दिर एव नरपतिना, कारिता च घोषणा नगरे पटहकेन यथा य: कश्चिदघटमानकं भणिष्यति तं राजा महादण्डेन दण्डयिष्यति, एवं व्रजति काल:.
अन्यस्मिन् दिने विज्ञातनरपतिमनोगतभावेन परिणायिता सा दुर्गतकन्यका सचिवेन, [राज्ञापि] परिणीता च सङ्केपेण, प्रक्षिप्तान्त:पुरे, पूर्वकृतसुकृतानुभावेन जातस्तदुपरि प्रणयानुबन्धो नरपतेः, प्राप्ता सा पट्टमहादेवीपदं, प्रवर्धमानप्रणयेन राज्ञा सह विषयसुखमनुभवन्ती सा कालं गमयामास। अन्यदा तरुणजनमनोमोहने कलकोकिलारावभृतभुवनोदरे समागते च वसन्तमासे नगरोद्यानाभिमुखं च प्रमोदभरनिर्भरे निर्गच्छति सति नागरिकजने उद्यानथ्रीदर्शनार्थं समं खरकया महादेव्या अनक्षबहुलकुम्भकारेण च प्रस्थित: पार्थिवोऽपि, निर्गच्छता च दृष्टा अकालफलभरभज्यमानशाखासञ्चयैका बदरी, पृष्टा च राज्ञा समासन्नवर्तिनी खरकामहादेवी, प्रिये! क एष पादप: ? किमभिधानान्येतस्य फलानि ? सुचिरं निरूप्य जल्पितमनया नाहं विजानामि, तदेवं श्रुत्वा समुत्पन्नानक्षेण प्रहतं निजमस्तकं टक्कराभिरनक्षबहुलेन, राज्ञा भणितं किमेतत् ? तेनोक्तं
यद्भयेन कान्तारे गृहमकारि, खरकां महादेवीं दर्शयता पठितमनक्षबहुलेन
कल्लइ बोरई विकिणइ, अज न जाणइ खक्ख । पडुयइ अडविहिं करि, मु घरु न सहउं एह अणक्ख ॥१॥
१जातः समास्वस्थ BJCT
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466