Book Title: Dharmaratnakarandaka
Author(s): Vardhmansuri, Munichandravijay
Publisher: Shardaben Chimanbhai Educational Research Centre
View full book text ________________
४०८
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज्ञटीकासहिते धर्मरत्नकरण्डके
इतश्च-श्रीजयसिंहभूपाल-भुक्तौ भूरिजनाश्रयः ।
ग्रामोऽस्ति दायिकाकूपो, जैनवेश्मविराजित: ॥१॥ तत्रासीज्जिन्दक: श्रेष्ठी, हुंवटान्वयभूषण: । द्वितीयश्चाजितो नाम, तस्य भ्राता सहोदरः। ताभ्यां विशालचित्तेन, शुभवित्तेन कारिता । रम्या पौषधशालास्ति, साधुश्रावकसंश्रया ॥३॥ जिन्दकश्रेष्ठिन: कीर्ति-रञ्जितस्य च धीमतः । पुत्रयो: सर्वदेवस्य, श्रेष्ठिन: श्रेष्ठकर्मण: ॥४॥ सूरिणा वर्धमानेन, तस्यां सन्तिष्ठता सता। भव्यलोकोपकाराय, प्रबन्धोऽयं विनिर्मित: ॥५॥ अगाधान्त:परिस्पन्दे, गूढार्थावर्त्तदुस्तरे। सारस्वते ह्रदे मग्ना, श्रान्ता सन्तरणाक्षमा ॥६॥ धीवरेणेव येनैषा, स्वयं संवाह्य यत्नत: । सम्प्रापिता परं पारं, मन्मतिौरिवाबला ॥७॥ स तपस्वी यशस्वी च, धर्मवान् धार्मिकप्रिय: । पार्श्वचन्द्र उपाध्याय-श्चिरं जीवतु नन्दतु॥ गणिनाशोकचन्द्रेण, लिखिता प्रथमा प्रति: । तथा धनेश्वरेणापि, साधुना पुण्यहेतवे॥ सूरिणा वर्धमानेन, नेमिचन्द्रमुनीश्वरैः । पार्श्वचन्द्रोपाध्यायैश्चरे, पण्डितैरेष शोधित: ॥१०॥ तथापि चाऽसमीचीनं, यदत्र परिभाव्यते । तत्संशोध्य समीचीनं, प्रविधेयं विचक्षणैः ॥११॥ नम: श्रीपार्श्वनाथाय, प्रत्यूहापोहहेतवे । अर्हद्वक्त्रनिवासिन्यै, श्रीमद्वाण्यै नमोनमः ॥१२॥ पूर्वापरेण सम्पिण्ड्य, सावधानेन चेतसा । प्रायो दशसहस्राणि, ग्रन्थमानं विनिश्चितम् ॥१३॥ विक्रमतो वर्षाणां, शतेष्वेकादशस्वतीतेषु । द्वासप्तव्या वर्षे-रधिकेषु कृता विवृतिरेषा ॥१४॥
इति श्रीजैनशासनसौधमध्यप्रदीपकल्प
चन्द्रगच्छीयश्रीमदभयदेवाख्यसूरिपादपद्मचञ्चरीकायमान
श्रीवर्धमानाचार्यरचितो
धर्मरत्नकरण्डकः परिसमाप्त: ।।
-
शिवमस्तु सर्वजगतः, परहितनिरता भवन्तु भूतगणा:। दोषा: प्रयान्तु नाशं, सर्वत्र सुखी भवतु लोकः ॥१॥
इति श्रीमच्चन्द्रगच्छीयश्रीअभयदेवसूरिपादपद्मचञ्चरीकश्रीवर्धर्मानाचार्यविरचितो
धर्मरत्नकरण्डकः सम्पूर्णः ॥ श्रीरस्तु॥ १भक्तो-मु. BIभोक्तो-J|२°ध्यायपण्डितैशेष-BI Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466