SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ ४०८ आचार्य श्रीवर्धमानसूरिरचिते स्वोपज्ञटीकासहिते धर्मरत्नकरण्डके इतश्च-श्रीजयसिंहभूपाल-भुक्तौ भूरिजनाश्रयः । ग्रामोऽस्ति दायिकाकूपो, जैनवेश्मविराजित: ॥१॥ तत्रासीज्जिन्दक: श्रेष्ठी, हुंवटान्वयभूषण: । द्वितीयश्चाजितो नाम, तस्य भ्राता सहोदरः। ताभ्यां विशालचित्तेन, शुभवित्तेन कारिता । रम्या पौषधशालास्ति, साधुश्रावकसंश्रया ॥३॥ जिन्दकश्रेष्ठिन: कीर्ति-रञ्जितस्य च धीमतः । पुत्रयो: सर्वदेवस्य, श्रेष्ठिन: श्रेष्ठकर्मण: ॥४॥ सूरिणा वर्धमानेन, तस्यां सन्तिष्ठता सता। भव्यलोकोपकाराय, प्रबन्धोऽयं विनिर्मित: ॥५॥ अगाधान्त:परिस्पन्दे, गूढार्थावर्त्तदुस्तरे। सारस्वते ह्रदे मग्ना, श्रान्ता सन्तरणाक्षमा ॥६॥ धीवरेणेव येनैषा, स्वयं संवाह्य यत्नत: । सम्प्रापिता परं पारं, मन्मतिौरिवाबला ॥७॥ स तपस्वी यशस्वी च, धर्मवान् धार्मिकप्रिय: । पार्श्वचन्द्र उपाध्याय-श्चिरं जीवतु नन्दतु॥ गणिनाशोकचन्द्रेण, लिखिता प्रथमा प्रति: । तथा धनेश्वरेणापि, साधुना पुण्यहेतवे॥ सूरिणा वर्धमानेन, नेमिचन्द्रमुनीश्वरैः । पार्श्वचन्द्रोपाध्यायैश्चरे, पण्डितैरेष शोधित: ॥१०॥ तथापि चाऽसमीचीनं, यदत्र परिभाव्यते । तत्संशोध्य समीचीनं, प्रविधेयं विचक्षणैः ॥११॥ नम: श्रीपार्श्वनाथाय, प्रत्यूहापोहहेतवे । अर्हद्वक्त्रनिवासिन्यै, श्रीमद्वाण्यै नमोनमः ॥१२॥ पूर्वापरेण सम्पिण्ड्य, सावधानेन चेतसा । प्रायो दशसहस्राणि, ग्रन्थमानं विनिश्चितम् ॥१३॥ विक्रमतो वर्षाणां, शतेष्वेकादशस्वतीतेषु । द्वासप्तव्या वर्षे-रधिकेषु कृता विवृतिरेषा ॥१४॥ इति श्रीजैनशासनसौधमध्यप्रदीपकल्प चन्द्रगच्छीयश्रीमदभयदेवाख्यसूरिपादपद्मचञ्चरीकायमान श्रीवर्धमानाचार्यरचितो धर्मरत्नकरण्डकः परिसमाप्त: ।। - शिवमस्तु सर्वजगतः, परहितनिरता भवन्तु भूतगणा:। दोषा: प्रयान्तु नाशं, सर्वत्र सुखी भवतु लोकः ॥१॥ इति श्रीमच्चन्द्रगच्छीयश्रीअभयदेवसूरिपादपद्मचञ्चरीकश्रीवर्धर्मानाचार्यविरचितो धर्मरत्नकरण्डकः सम्पूर्णः ॥ श्रीरस्तु॥ १भक्तो-मु. BIभोक्तो-J|२°ध्यायपण्डितैशेष-BI Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002712
Book TitleDharmaratnakarandaka
Original Sutra AuthorVardhmansuri
AuthorMunichandravijay
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1994
Total Pages466
LanguageHindi
ClassificationBook_Devnagari, Literature, & Religion
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy