SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ अधिकार २० / श्लोक ३७३-३७६ / उपसंहार-प्रशस्ति ४०७ इति सङ्घपूजाधिकारे धनसारश्रेष्ठिकथानकं समाप्तं, तत्समाप्तौ च समाप्त: सङ्घपूजाधिकारः, ॥३७२॥ अथ सूरि: प्रकरणकरणोपात्तपुण्येन शुभप्रार्थनां कुर्वन् श्लोकद्वयमाह सुभाषितसुधाधाम-धर्मरत्नकरण्डकम् ।भव्यसत्त्वोपकाराय, कृत्वा यदुपार्जितं शुभम् ॥३७३॥ तेनैव मम भूयोऽपि, भूयाजन्मनि जन्मनि । ज्ञानदर्शनचारित्र-भावश्रीवर्धमानता ॥३७४॥ सुभाषितान्येव सुधा पीयूषं, तस्य धाम स्थानं सुभाषितसुधाधाम, विशेषणमिदं, विशेष्यमाह-धर्मरत्नकरण्डकं धर्मस्य सम्बधिनो ये दानादिभेदास्त एव रत्नानि धर्मरत्नानि, तेषां करण्डक इव करण्डकः सङ्गोपनस्थान प्रकरणाभिधानमिदं, भव्यसत्त्वोपकाराय भव्यलोकानुग्रहाय कृत्वा विधाय यदुपार्जितं यद्विटपितं शुभं पुण्यमिति, तेनैव शुभेन मम मह्यं भूयोऽपि पुनरपि भूयाद्भवेज्जन्मनि जन्मनि आसंसारमित्यर्थः, ज्ञानदर्शनचारित्राण्येव भावलक्ष्मीस्तस्या वर्धमानता प्रवर्धमानत्वं ज्ञानदर्शनचारित्रभाव श्रीवर्धमानता, अनेन काक्वा प्रकरणकृता स्वाभिधानमुक्तमिति ॥३७०-३७१।। अथ सूरि: प्रकरणस्य स्वकृतत्वमावेदयन्नाह श्रीमदभयदेवाख्य-सूरिशिष्येण निर्मित:। सूरिणा वर्धमानेन, धर्मरत्नकरण्डकः ॥३७५।। श्रीमांश्चासावभयदेवाख्यसूरिश्च, तस्य शिष्यो विनेयस्तेन निर्मितो विरचित:, सूरिणाचार्येण वर्धमानाभिधानेन धर्मरत्नकरण्डको धर्मरत्नकरण्डकाख्यो ग्रन्थ इति श्लोकार्थ इति ॥३७५॥ अथ ग्रन्थाग्रं सूत्रस्य श्लोकसङ्ख्यया प्राह ग्रथितेऽपि हि विज्ञेयं, श्लोकानां सर्वसङ्ख्यया । पूर्वापर्येण सम्पिण्ड्य, पञ्चत्रिंशं शतत्रयम् ॥३७६।। श्लोकोऽयं व्यक्त एव ॥३७३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002712
Book TitleDharmaratnakarandaka
Original Sutra AuthorVardhmansuri
AuthorMunichandravijay
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1994
Total Pages466
LanguageHindi
ClassificationBook_Devnagari, Literature, & Religion
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy