Book Title: Dharmaratnakarandaka
Author(s): Vardhmansuri, Munichandravijay
Publisher: Shardaben Chimanbhai Educational Research Centre
View full book text ________________
४०६
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज्ञटीकासहिते धर्मरत्नकरण्डके
जत्थ न बुज्झसि हियए, थुन्वसि न गिराए नेव कारण । पणमिजसि देव ! तुमं, अलाहि किं तेण जम्मेण ॥२४॥ देव ! तुमाउ न अन्नो, मह नाहो इहभवे परभवे वा। एसा मह पडिवत्ती, कम्मवसा कजनिष्फत्ती ॥२४५॥ नाह ! तुमाउ न अन्नो, नमामि न थुणामि नेव अच्चेमि । पत्येमि नेव जिणवर !, सुत्तो सुमिणे न समरामि ॥२४६॥ तं चेव मुणसि मुणिवइ !, जइ एयमकारिमं तउ मज्झ । तुह पयसेवासहिओ, भवे भवे होज जिण ! जम्मो ॥२४७॥ तवियं तवो तवोनिहि !, सुया सुई तुम्ह भाविओ अत्यो। संपइ समाहिमरणं, जह होइ तहा करेजासु ॥२४८॥ इय तिसलहनंदणि दुहसय-खंडणि वद्धमाणपहुथुयचलणि ।
वरलक्खणलंछणि भव-भयभंजणि होउ भत्ति मह वीरजिणि ॥२४९॥ एवमादिस्तुतिस्तोत्रैः, संवेगरसदायिभि: । वन्दित्वा भक्तितो देवान, ववन्दे विधिना गुरून् ।।२५०॥ सर्वस्यापि त्रिलोकस्य, वन्दनीयपदाम्बुजान् । सर्वसाधूंश्च वन्दित्वा, विधायानशनं ततः ॥२५१॥ भावयन् भववैरस्यं, चञ्चलत्वं च सम्पदां । मानुषत्वादिसामग्रया, भूयोऽप्यत्र दुरापताम् ॥२५२॥ सर्वथा दुर्जयत्वं च, महामोहमहीपतेः । दारुणत्वमकल्याण-मित्रवर्गाभिसङ्गतेः ॥२५३॥ कल्याणमित्रयोगस्य, सर्वकल्याणदायिनः । असमञ्जसकारित्वं, रागिणां च पदे पदे ।।२५४॥ सद्गतेः प्रतिपन्थित्वं, सर्वान्तरद्विषां तथा । एवमादिसमग्राणां, त्रैलोक्योदरभाविनाम् ।।२५५॥ सुन्दरेतरभावानां, शुभेतरविपाकताम् । स संस्तारकमारूढः, प्रौढसद्भावनायुतः ॥२५६॥ सम्यक्पञ्चनमस्कारं, सारमार्हतशासने। उच्चचार स्फुटैर्वाक्यैः, संसारार्णवतारकम् ॥२५७॥ सञ्जातं पञ्चमं ज्ञानं, विश्वविश्वावभासकम् । एवं ते साधव: शुद्ध-पञ्चमज्ञानसंयुताः ।।२५८|| पञ्चापि पञ्चमोदार-चारुचारित्रशालिनः । प्रक्षीणाशेषकर्मांशाः, सर्वे क्लेशविवर्जिताः ॥२५९।। कषायरहिताश्चापि, सर्वथा मोहवर्जिता: । सम्प्राप्ता: परमानन्द-सुन्दरं परमं पदम् ।।२६०. तदेवं धनसारोऽसौ, सार्धं स्वीयवयस्यकैः । सङ्घपूजाप्रभावेण, जात: कल्याणभाजनम् ।।२६१॥ तदिममिह विलोक्य श्रेयसामेकहेतुं, भवजलनिधिमज्जज्जन्तुसन्तानसेतुम् । शमितदुरितदावं सङ्घपूजाप्रभावं, कुरुत भविकलोका: सादरं सङ्घपूजाम् ॥२६२॥ तदेवं धनसारेण, सङ्घपूजां प्रकुर्वता । तीर्थप्रभावनाकारि, श्रीमज्जैनेन्द्रशासने ॥२६३॥
यत:- तं किंपि पुरिसरयणं, संघसमुदंमि जायइ महग्यं ।
उज्जोइज्जइ सयलंपि, सासणं जेण जगगुरुणो ॥२६४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466