Book Title: Dharmaratnakarandaka
Author(s): Vardhmansuri, Munichandravijay
Publisher: Shardaben Chimanbhai Educational Research Centre

View full book text
Previous | Next

Page 431
________________ ४०४ आचार्य श्रीवर्धमानसूरिरचिते स्वोपज्ञटीकासहिते धर्मरत्नकरण्डके ततस्ते साधवो जाता:, शान्तचेतोजितेन्द्रियाः । पञ्चधाचारसम्पन्ना-स्तप:संयमसंयुता: ॥१९८॥ शिक्षिता द्विविधा शिक्षा, ग्रहणासेवनाभिधा । जाता: क्रमेण गीतार्थाः, शीलसंयमशालिनः ॥१९९॥ भव्योपकरणे निष्ठा, विहृता: सह सूरिभिः । नानाप्रकारदेशेषु, ग्रामेषु नगरेषु च ।।२००।। तपोभिः कृशतां नीतं, शरीरं सह कर्मभिः । अन्यदा धनसाराख्य:, साधुः साधितसक्रियः॥ भावयन् भावना भव्या-श्चिन्तयामास मानसे । दुर्बलं मामकं देहं, सम्प्रत्यनशनं वरम् ॥२०२॥ ददाम्यालोचनां सम्य-क्शल्योद्धारं करोम्यहम् । संविग्नश्चिन्तयन्नेवं, गुरूणामन्तिकं गतः ।।२०३॥ वन्दित्वा द्वादशावत-वन्दनेन गुरून् स च । प्रारब्ध: शुद्धभावेन दातुमालोचनामलम् ॥२०४॥ यच्छन्नालोचनामेवं, परं संवेगमागत: । शुक्लध्यानं समारूढः, कर्मारण्यदवानलम् ।।२०५।।। प्रक्षीणं च ततस्तस्य, घातिकर्मचतुष्टयम् । सञ्जातं केवलं ज्ञानं, लोकालोकप्रकाशकम् ।।२०६॥ तदेवं धनसारस्य, शल्योद्धारं प्रकुर्वता । घातिकर्मक्षये जाते, सञ्जात: केवलोदय: ॥२०७॥ एवमेव सुसेनोऽपि, साधुः साधुगुणालय: । दृष्ट्वा स्वं दुर्बलं देहं, देहत्यागचिकीर्षया ॥२०८॥ गुरूणामन्तिकं प्राप्त:, शुद्धयमानो यथोत्तरम् । गुरूणां वन्दनं दत्त्वा, ददावालोचनां स्फुटम् ॥२०९।। सर्वं कृत्यं विधायाशु, 'गुरोरन्तिक एव सः । ततो महाव्रतोच्चारं, कर्तुमेवं समुद्यतः ॥२१०॥ अहं भदन्त ! नि:शेषं, प्रत्याख्यामि तवान्तिके । प्राणघातं मृषावाद-मदत्तादानमेव च ॥२११।। मैथुनासेवनं सर्वं, सर्वमेव परिग्रहम् । रजनीभोजनं सर्वं, सर्वथापि त्यजाम्यहम् ॥२१२।। सर्वं क्रोधं च मानं च, मायां लोभं तथाखिलम् । राग द्वेषं च नि:शेष-मभ्याख्यानं तथैव च ।।२१३।। सर्वं परपरीवादं, पैशून्यं कलहं तथा । सर्वां मायामृषां मिथ्या-दर्शनं च तथाखिलम् ॥२१४॥ देहमप्यन्तिमोच्छ्वासे, जिनाध्यक्षं त्यजाम्यहम् । कुर्वन्नेवं व्रतोच्चारं, स साधु: शुद्धमानस: ॥२१५।। परं संवेगमापन्न:, शुक्लध्यानवशादथ । सम्प्राप्त: केवलं ज्ञानं, लोकालोकविलोकनम् ।।२१६॥ एवमेव वरज्ञान-दर्शनादिगुणोदधि: । साधुर्गुणाकरो नाम, देहत्यागाभिकाया ॥२१७॥ गुरूणामन्तिकं गत्वा, शल्योद्धारं विधाय च । कृत्वा सर्वव्रतोच्चारं, संवेगभरनिर्भरः ॥२१८॥ प्रारब्ध: क्षामणां कर्तुं, मूर्ध्नि कृत्वा करांजलिम् । अनन्तगुणशुद्धया च, शुद्धयमान: क्षणे क्षणे॥ व्रतिनां व्रतिनीनां च, या कृताऽऽशातना मया। श्रावकश्राविकाणां च, तत्सर्वं क्षमयाम्यहम् ।।२२०॥ क्षमयाम्येव नि:शेषं, जीवराशि चराचरम् । सर्वे क्षाम्यन्तु मे जीवा:, समभावमुपेयुषः ॥२२१॥ इत्यादि क्षामणां तस्य, कुर्वत: शुद्धचेतसः । केवलज्ञानमुत्पन्नं, सर्वभावावभासकम् ॥२२२॥ एवं चन्द्राभिधानोऽपि, साधु: संशुद्धमानस: । गत्वा गुर्वन्तिके तं च, वन्दित्वालोचनां ददौ ।। महाव्रतानि सर्वाणि, समुच्चार्य प्रशान्तधी: । सर्वं सङ्घ च जीवांश्च, क्षामयित्वा मुहुर्मुहुः ॥२२४।। वन्दित्वा सर्वचैत्यानि, सर्वसाधूंश्च भावत: । एवं विधातुमारब्धो-ऽनशनं परतो यत: ॥२२५॥ १ गुर्वन्तिक-BCI Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466