________________
४०४
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज्ञटीकासहिते धर्मरत्नकरण्डके
ततस्ते साधवो जाता:, शान्तचेतोजितेन्द्रियाः । पञ्चधाचारसम्पन्ना-स्तप:संयमसंयुता: ॥१९८॥ शिक्षिता द्विविधा शिक्षा, ग्रहणासेवनाभिधा । जाता: क्रमेण गीतार्थाः, शीलसंयमशालिनः ॥१९९॥ भव्योपकरणे निष्ठा, विहृता: सह सूरिभिः । नानाप्रकारदेशेषु, ग्रामेषु नगरेषु च ।।२००।। तपोभिः कृशतां नीतं, शरीरं सह कर्मभिः । अन्यदा धनसाराख्य:, साधुः साधितसक्रियः॥ भावयन् भावना भव्या-श्चिन्तयामास मानसे । दुर्बलं मामकं देहं, सम्प्रत्यनशनं वरम् ॥२०२॥ ददाम्यालोचनां सम्य-क्शल्योद्धारं करोम्यहम् । संविग्नश्चिन्तयन्नेवं, गुरूणामन्तिकं गतः ।।२०३॥ वन्दित्वा द्वादशावत-वन्दनेन गुरून् स च । प्रारब्ध: शुद्धभावेन दातुमालोचनामलम् ॥२०४॥ यच्छन्नालोचनामेवं, परं संवेगमागत: । शुक्लध्यानं समारूढः, कर्मारण्यदवानलम् ।।२०५।।। प्रक्षीणं च ततस्तस्य, घातिकर्मचतुष्टयम् । सञ्जातं केवलं ज्ञानं, लोकालोकप्रकाशकम् ।।२०६॥ तदेवं धनसारस्य, शल्योद्धारं प्रकुर्वता । घातिकर्मक्षये जाते, सञ्जात: केवलोदय: ॥२०७॥ एवमेव सुसेनोऽपि, साधुः साधुगुणालय: । दृष्ट्वा स्वं दुर्बलं देहं, देहत्यागचिकीर्षया ॥२०८॥ गुरूणामन्तिकं प्राप्त:, शुद्धयमानो यथोत्तरम् । गुरूणां वन्दनं दत्त्वा, ददावालोचनां स्फुटम् ॥२०९।। सर्वं कृत्यं विधायाशु, 'गुरोरन्तिक एव सः । ततो महाव्रतोच्चारं, कर्तुमेवं समुद्यतः ॥२१०॥ अहं भदन्त ! नि:शेषं, प्रत्याख्यामि तवान्तिके । प्राणघातं मृषावाद-मदत्तादानमेव च ॥२११।। मैथुनासेवनं सर्वं, सर्वमेव परिग्रहम् । रजनीभोजनं सर्वं, सर्वथापि त्यजाम्यहम् ॥२१२।। सर्वं क्रोधं च मानं च, मायां लोभं तथाखिलम् । राग द्वेषं च नि:शेष-मभ्याख्यानं तथैव च ।।२१३।। सर्वं परपरीवादं, पैशून्यं कलहं तथा । सर्वां मायामृषां मिथ्या-दर्शनं च तथाखिलम् ॥२१४॥ देहमप्यन्तिमोच्छ्वासे, जिनाध्यक्षं त्यजाम्यहम् । कुर्वन्नेवं व्रतोच्चारं, स साधु: शुद्धमानस: ॥२१५।। परं संवेगमापन्न:, शुक्लध्यानवशादथ । सम्प्राप्त: केवलं ज्ञानं, लोकालोकविलोकनम् ।।२१६॥ एवमेव वरज्ञान-दर्शनादिगुणोदधि: । साधुर्गुणाकरो नाम, देहत्यागाभिकाया ॥२१७॥ गुरूणामन्तिकं गत्वा, शल्योद्धारं विधाय च । कृत्वा सर्वव्रतोच्चारं, संवेगभरनिर्भरः ॥२१८॥ प्रारब्ध: क्षामणां कर्तुं, मूर्ध्नि कृत्वा करांजलिम् । अनन्तगुणशुद्धया च, शुद्धयमान: क्षणे क्षणे॥ व्रतिनां व्रतिनीनां च, या कृताऽऽशातना मया। श्रावकश्राविकाणां च, तत्सर्वं क्षमयाम्यहम् ।।२२०॥ क्षमयाम्येव नि:शेषं, जीवराशि चराचरम् । सर्वे क्षाम्यन्तु मे जीवा:, समभावमुपेयुषः ॥२२१॥ इत्यादि क्षामणां तस्य, कुर्वत: शुद्धचेतसः । केवलज्ञानमुत्पन्नं, सर्वभावावभासकम् ॥२२२॥ एवं चन्द्राभिधानोऽपि, साधु: संशुद्धमानस: । गत्वा गुर्वन्तिके तं च, वन्दित्वालोचनां ददौ ।। महाव्रतानि सर्वाणि, समुच्चार्य प्रशान्तधी: । सर्वं सङ्घ च जीवांश्च, क्षामयित्वा मुहुर्मुहुः ॥२२४।। वन्दित्वा सर्वचैत्यानि, सर्वसाधूंश्च भावत: । एवं विधातुमारब्धो-ऽनशनं परतो यत: ॥२२५॥ १ गुर्वन्तिक-BCI
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org