________________
अधिकार २० / श्लोक ३७२ / धनसारकथा
४०३
वाणिज्यं चक्रिरे तत्र, द्रव्यमादाय तावकम् । त्वयापि सह सम्प्रीति-रेतेषामभवत्सदा ॥१७०॥ तथा चैषां त्वमेवासी:, प्रमाणं सर्वकर्मसु । तत्राप्येभिः समं सख्यं, स्नेहसारं तवाभवत् ॥१७१।। गृहीत्वा श्रावकं धर्मं, सूरीणामन्तिके पुरा । संहतैरेव युष्माभिः, सर्वैरासेवित: किल ॥१७२॥ तथा जिनगृहं जीर्णं, धनसार ! त्वया सदा । समुद्धृत्य कृता चारु-र्यात्रा तत्र जिनालये ॥१७३।। भूद्रिव्यव्ययो जाती, जाता तीर्थप्रभावना । तथा कृता सुवस्त्राद्यैः, सपूजा च तत्र भोः ॥१७॥ एतदेभिर्भवन्मित्रैः, सर्वमेवानुमोदितम् । प्रदत्तं च निजं वित्तं, धर्मस्थानेषु शक्तितः ॥१७५॥ ततो मृत्वा गता: सर्वे, कल्प ईशाननामनि । ततश्च्युत्वा च सञ्जाता, यूयमेते वयस्यकाः ॥१७६॥ तद्भोः पूर्वभवाभ्यासा-जाता व: प्रीतिरञ्जसा । सङ्घपूजा कृता तेन, तवेदृक्षा गृहे श्रियः ॥१७७|| एवं सूरिभिराख्याते, तेषां प्राचीनजन्मनि । जातिस्मरणमुत्पन्नं, सर्वेषामपि तत्क्षणम् ॥१७८।। तत: संवेगमापन्नाः, सर्वे संसारभीरवः । कृत्वा कराञ्जलिं मूर्ध्नि, सूरिमेवं बभाषिरे ॥१७९।। भगवन् ! सुस्थतां कृत्वा, स्वकुटुम्बस्य साम्प्रतम् । संसारोत्तारिणीं दीक्षां, गृहीष्यामस्तवान्तिके॥ सूरिणोक्तं च ह्यत्रार्थे, मा विलम्बं करिष्यथ । सूरि-नत्वा ततो गेहे, गता: सर्वे निजे निजे ॥१८॥ ततस्तैः संहतैर्भूत्वा, चारुयात्रामहोत्सवाः । कारिता: सर्वचैत्येषु, सर्वा सर्वयत्नतः ॥१८॥ दीनानाथादिलोकेभ्यो, दत्तं दानं किमिच्छितम् । दानपूर्वममाघात, उद्घोषित: पुरादिषु ॥१८३॥ वरैर्वस्त्रैवर: पात्रै-वराहारैर्वरौषधैः । वरैः कम्बलरत्नैश्च, वरैर्धर्मध्वजादिभिः ॥१८४॥ सम्पूजित: समग्रोऽपि, सङ्घः सर्वगुणालयः । भावसारं गुणाधारः, संसारोत्तारणक्षमः ।।१८५।। सर्वसाधर्मिकाणां च, कृतं वात्सल्यमुच्चकैः । दत्तं द्रव्यं विशेषेण, सर्वतीर्थेषु पुष्कलम् ॥१८६॥ इत्यादि सकलं कृत्यं, कृत्वा कृत्यविचक्षणः । कृत्वा स्वस्य कुटुम्बस्य, सर्वसौस्थ्यं विशेषत:।। तत: काञ्चनसद्रत्न-रम्यासु शिबिकासु ते । आरुह्य कृतशृङ्गारा-श्चारुचन्दनचर्चिताः ॥१८८॥ शुभ्रालङ्कारसद्वस्त्रा, महर्या पुरमध्यत: । निष्क्रान्ता ददतो दानं, यथाकामं तदर्थिनाम् ॥१८९।। श्लाघ्यमाना जनै: सर्वैः, स्तूयमानाश्च बन्दिभि: । एवं क्रमेण कुर्वन्तो, वरां तीर्थप्रभावनाम् ॥१९०॥ गता उद्याननैकटये, तत: सर्वेऽपि संहता: । शिबिकात: समुत्तीर्य, व्रतोत्कण्ठितमानसा: ॥१९१॥ गतास्ते पादचारेण, सूरीणामन्तिकं तत: । दत्त्वा प्रदक्षिणास्तिस्रो, नत्वा सूरि बभाषिरे ॥१९२॥ निर्विण्णा वयमेतस्मा-'त्प्रभो! संसारवासत: । देहि दीक्षां जिनोद्दिष्टां, संसारोच्छेदकारिणीम् ।।१९३।। ततस्ते सूरिणा सर्वे, दीक्षिता विधिपूर्वकम् । अनुशिष्टाश्च सद्वाक्य-र्भवनैर्गुण्यदर्शकैः ॥१९४॥ यथा भो भो दुरापेयं, बहीभिर्भवकोटिभि: । मानुषत्वादिसामग्री, सा सम्प्राप्तां-भवादृशैः ।।१९५॥ तथा तथा यतध्वं भो, संयमे नियमे व्रते । सफलेयं समग्रापि, जायते च यथा यथा ॥१९६।। एवं दत्ता प्रबन्धेन, गुरुणा त्वनुशासना। तैरप्यत्यन्तसंविनैः, सम्यगेव प्रतीच्छिता ॥१९७॥ १°भगवन् ! सं° BI
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org