________________
४०२
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज्ञटीकासहिते धर्मरत्नकरण्डके
सततपातुकमिदमायुष्कं, करिकर्णतरलतरं तारुण्यं, जलधिजलकल्लोललोललावण्यं, स्वकार्यनिष्ठोऽयं बन्धनभूतो बन्धुवर्गः, दुर्गतिपातहेतुभूतोऽयं स्त्रीवर्ग:, संसारवर्तिनां जीवानां पदे पदे इष्टजनविप्रयोग:, अनिष्टजनसम्प्रयोग:, :रिपुराजादिकृतो महापरिभव:, मानखण्डनं, चित्तसन्तापः, सुलभा विपदो, दुर्लभा: सम्पदः, दुरन्ता नानानर्थकारिणो रागादयो महावैरिण:, दुर्लभा च भूयोऽपि जलधिजलमध्यपतितं रत्नमिव मानुषत्वादिसामग्री तदिमामनन्तानन्तपुद्गलपरावर्तपर्यन्ते कथञ्चिदेव तुष्टिवशादासाद्य विवेकवद्भिर्धर्मे यत्नो विधेय:, स चाहिंसादिलक्षण: पूर्वापराविरुद्धसर्वोपाधिविशुद्ध: सर्वज्ञभाषित एव दुर्गतिगर्तनिपत- ज्जन्तूद्धरणलक्षणयोगात्परमार्थतो धर्मतां भजते, अतोऽयमेव प्रेक्षापूर्वकारिभि: कषच्छेदतापसंशुद्धो जात्यस्वर्णमिवाविकलफलप्रदानप्रवणो ग्राह्य इति ।
अयं च सर्वज्ञप्रणीतो धर्मो द्विधा यतिश्रावकधर्मभेदात्, तत्र यतिधर्मः क्षान्तिमार्दवार्जवमुक्तितप:संयमसत्यशौचाकिञ्चन्यब्रह्मचर्यभेदाद्दशधा, श्रावकधर्मस्तु सम्यक्त्वमूलाणुव्रतपञ्चकगुणव्रतत्रिकशिक्षापदचतुष्टयभेदाद् द्वादशधा । इत्यादि यतिधर्मे श्रावकधर्मे च सप्रभेदे दयासारसूरिणा प्ररूपिते सति कैश्चिद्भव्यसत्त्वै: शारीरमानसानेकदु:खसम्भारासारसंसारचारकावासनिर्विण्णैः निखिलकर्मक्षयोद्भूतनिक्बाध-निरन्तरनिरुपमानन्दसन्दोहसुन्दरसुखपरम्परापरिकलितशाश्वतशिवसदनशिखरसंवासलम्पटमानसै: जन्मजरामरणभीषणभंवभ्रमणरीणप्राणिगणपरित्राणकारिणी, दुरन्तदुर्गतिगर्तनिपतज्जन्तुसन्तानसमुत्तारिणी निखिलकटुकठिन-घनकर्मवनगहनदहनदावानलज्व- लज्ज्वालावली, सकलकलिलकलुषमलपटलप्रक्षालनसजल- जलदावली, चतुर्गतिकसंसारोद्भवानन्तदुरन्ततीक्ष्णदुःखप्रेडच्छाखिसन्ततिसञ्छेदनोद्धरनिष्ठरकुठारिका, अमरनरनभश्चरप्रवरतरप्राज्यराज्यादिसकलातुलविपुलकल्याणपरम्पराकारिका, सर्वसावद्ययोगविवर्जनरूपा सर्वविरति: प्रतिपन्ना, कैश्चित् सम्यक्त्वमूलपञ्चाणुव्रतसप्तशिक्षापदरूपा देशविरतिरङ्गीकृता, केचित्त्वविरतसम्यग्दृष्टयः सञ्जाता:, केचित्तु मद्यमांसादिविरतिरूपाननेकानभिग्रहान् प्रतिपन्नवन्त:, अन्ये पुनर्भद्रकभावमुपगतवन्त इति ।
अत्रान्तरे धनसारो, नत्वा सूरिंमपृच्छत । यथा स्वामिन् ! किमस्माभिः, कृतं कर्म शुभं पुरा?॥ पञ्चानामपि सत्प्रीति-रस्माकं येन वर्तते । एवंविधाश्च सञ्जाता:, सम्पद: केन हेतुना ? ॥१६॥ सूरिः प्रोवाच भो भद्रा:!, श्रूयतां सावधानकैः । युष्माकं येन सत्प्रीति-स्तदेतत्कथयाम्यहम् ॥१६७॥ अत्रैव भारते वर्षे, पुरे विश्वपुराभिधे । बभूव धनसार ! त्वं, सार्थवाह: सुमङ्गलः ॥१६८॥ एते त्वासन् सुसेनाद्या, वणिक्पुत्रास्तवैव भोः । सस्नेहा एकचित्ताश्च, चत्वारोऽपि परस्परम् ॥१६९।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org