Book Title: Dharmaratnakarandaka
Author(s): Vardhmansuri, Munichandravijay
Publisher: Shardaben Chimanbhai Educational Research Centre
View full book text ________________
३८८
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज्ञटीकासहिते धर्मरत्नकरण्डके
सर्वदानाग्रिमं दानं, शौचानां शौचमुत्तमम् । कारणं सर्वसौख्यानां, यदेतत्प्राणिरक्षणम् ॥३५१॥ शेषदानान्यदानानि, मरणे समुपस्थिते । जीवितं यो ददात्यस्य, स दाता सर्वदायकः ॥३५२॥ दृष्टान्तोऽत्र नरः कोऽपि, राजरत्नमलिम्लुचः । राजप्रसादतो राज्या मरणाद्विनिमोचितः ॥३५३॥ परप्राणप्रहाणोत्थ-पापपूरेण पूरिताः । पतन्ति प्राणिन: पापा, नरके तीव्रवेदने ॥३५४॥ सदयहृदयदत्ता त्रातनि:शेषसत्त्वा, विधृतगुणविताना सर्वधर्मप्रधाना। जयति दलितदोषा सर्वकल्याणपोषा, जनजनितसदक्षा पालिता जीवरक्षा ॥३५५।।
इति श्लोका: सप्तदश, व्याख्या-दयेत्यादि दया अहिंसा धर्मस्य सर्वस्वं सर्वसारः, दया धर्मस्य जीवितमिव जीवितं, दयासद्भाव एव धर्मसद्भावात् मातेव जननीव निजपुत्रस्य सुतस्य दया धर्मस्य पालिकेति श्लोकार्थः ॥३३९।।
अथ वधचिन्तापि न कर्तव्येत्युपदिशन्नाह-दुःखिता इत्यादि श्लोक: स्पष्टः ॥३४०।। अथात्र संसारे न कोऽपि शत्रुर्मित्रं वापीति दर्शयन्नाह-जायन्त इति श्लोक: सुगम:. ॥३४१॥
अथ परप्राणप्रहाणं प्रति चिन्तनशस्त्रग्रहणव्यापादनेषु यावन्मानं सुकृतं हन्ति व्यवहारतस्तत्तावन्मानं दर्शयन् श्लोकत्रयमाह-हन्मीति चिन्तनादेवेत्यादिकं कण्ठ्यं चैतत् ॥३४२-३४४।।
अथ शस्त्रमुद्गीर्णमालोक्यामार्यमाणा अपि यथा दुःखातुरा भवन्ति जन्तवस्तथा दर्शयितुमाहदृष्ट्वा शस्त्रं समुद्गीर्णमित्यादि श्लोकद्वयं स्पष्टम् ॥३४५-३४६।।
अथ सर्वास्वप्यवस्थासु सर्वेषामपि प्राणिनां सर्वैरपि प्रकारैर्जीवितव्यमत्यन्तवल्लभमिति दर्शयन् श्लोकत्रयमाह-अर्थवन्तोऽर्थसारेणेत्यादि सुखावबोधमेवेदमिति ।।३४७-३४९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466