SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ ३८८ आचार्य श्रीवर्धमानसूरिरचिते स्वोपज्ञटीकासहिते धर्मरत्नकरण्डके सर्वदानाग्रिमं दानं, शौचानां शौचमुत्तमम् । कारणं सर्वसौख्यानां, यदेतत्प्राणिरक्षणम् ॥३५१॥ शेषदानान्यदानानि, मरणे समुपस्थिते । जीवितं यो ददात्यस्य, स दाता सर्वदायकः ॥३५२॥ दृष्टान्तोऽत्र नरः कोऽपि, राजरत्नमलिम्लुचः । राजप्रसादतो राज्या मरणाद्विनिमोचितः ॥३५३॥ परप्राणप्रहाणोत्थ-पापपूरेण पूरिताः । पतन्ति प्राणिन: पापा, नरके तीव्रवेदने ॥३५४॥ सदयहृदयदत्ता त्रातनि:शेषसत्त्वा, विधृतगुणविताना सर्वधर्मप्रधाना। जयति दलितदोषा सर्वकल्याणपोषा, जनजनितसदक्षा पालिता जीवरक्षा ॥३५५।। इति श्लोका: सप्तदश, व्याख्या-दयेत्यादि दया अहिंसा धर्मस्य सर्वस्वं सर्वसारः, दया धर्मस्य जीवितमिव जीवितं, दयासद्भाव एव धर्मसद्भावात् मातेव जननीव निजपुत्रस्य सुतस्य दया धर्मस्य पालिकेति श्लोकार्थः ॥३३९।। अथ वधचिन्तापि न कर्तव्येत्युपदिशन्नाह-दुःखिता इत्यादि श्लोक: स्पष्टः ॥३४०।। अथात्र संसारे न कोऽपि शत्रुर्मित्रं वापीति दर्शयन्नाह-जायन्त इति श्लोक: सुगम:. ॥३४१॥ अथ परप्राणप्रहाणं प्रति चिन्तनशस्त्रग्रहणव्यापादनेषु यावन्मानं सुकृतं हन्ति व्यवहारतस्तत्तावन्मानं दर्शयन् श्लोकत्रयमाह-हन्मीति चिन्तनादेवेत्यादिकं कण्ठ्यं चैतत् ॥३४२-३४४।। अथ शस्त्रमुद्गीर्णमालोक्यामार्यमाणा अपि यथा दुःखातुरा भवन्ति जन्तवस्तथा दर्शयितुमाहदृष्ट्वा शस्त्रं समुद्गीर्णमित्यादि श्लोकद्वयं स्पष्टम् ॥३४५-३४६।। अथ सर्वास्वप्यवस्थासु सर्वेषामपि प्राणिनां सर्वैरपि प्रकारैर्जीवितव्यमत्यन्तवल्लभमिति दर्शयन् श्लोकत्रयमाह-अर्थवन्तोऽर्थसारेणेत्यादि सुखावबोधमेवेदमिति ।।३४७-३४९॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002712
Book TitleDharmaratnakarandaka
Original Sutra AuthorVardhmansuri
AuthorMunichandravijay
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1994
Total Pages466
LanguageHindi
ClassificationBook_Devnagari, Literature, & Religion
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy