SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ अधिकार १९ / श्लोक ३३९-३५५ / दयामहिमा, चौरदृष्टान्तम् ३८९ अथ तात्पर्यं कथयन्नाह-एतद्धर्मस्य सर्वस्वमिति श्लोक: स्पष्टः ।।३५०॥ अथ दयाया एव माहात्म्यमाविष्कुर्वनाह-सर्वदानेत्यादि, सर्वदानानामग्रिमं प्रधानं दानं वितरणं शौचानां सत्यतपोजलादिशौचानां शौचमुत्तमं प्रधानं कारणं निबन्धनं सर्वसौख्यानों समस्तशर्मणां यदेतत्प्राणिरक्षणमिति ॥३५१॥ अथ शेषदानेभ्यो जीवितव्यदानस्य प्राधान्यमावेदयन्नाह-शेषदानानीत्यादि, स्पष्टश्चायं श्लोक: ॥३५२॥ अथ शेषदानेभ्यो यथा जीवितव्यदानं प्रधानं तथा दृष्टान्तेन स्पष्टयन्नाह-दृष्टान्तोऽत्र नर इत्यादि, दृष्टान्त उदाहरणमत्र दयादानाधिकारे नरो मानवः कोऽपि कश्चिद्राजरत्नमलिम्लुचो राजरत्नहारिचौरो राजप्रसादतो राज्ञ: प्रसादेन राज्या पट्टमहादेव्या मारणात्प्राणव्यपरोपणाद्विनिमोचितो रक्षित इति ॥३५३॥ अथ जीवघातिनामामुष्मिकं दोषमाह-परेत्यादि, परप्राणानां प्रहाणं घातनं तदुत्थपापस्य पूर: प्रवाहस्तेन पूरिता व्याप्ता: पतन्ति निमज्जन्ति प्राणिनो जीवा: पापा: पापकारिणो नरके तीव्रवेदन इति ॥३५४॥ अथ जीवदयां स्तुवन् वृत्तमाह-सदयेत्यादि, सदयहृदयदत्ता सदयं हृदयं येषां ते सदयहृदयास्तैर्दत्ता, त्रातनि:शेषसत्त्वा रक्षितसकलजीवा, विधृतगुणविताना विधृतो गुणानां वितानो विस्तरो यया सा, तथा सर्वधर्मप्रधाना सर्वधर्मोत्तमा, जयत्यतिशेते दलितदोषा विदारितापराधा, सर्वकल्याणपोषा सकल)य:पुष्टिकारिणी, जनजनितसदक्षा जनानां जनितानि सन्ति शोभनान्यक्षाणीन्द्रियाणि यया सा, तथा पालिता सेविता जीवरक्षा जीवदयेति वृत्तसमासार्थ: ॥३५५।। राजरत्नमलिम्लुचदृष्टान्त: पुनरयंअस्त्यत्र भारते वर्षे वसन्तपुरं नाम नगरं तत्र जितशत्रुर्नाम राजा बभूव । अथ तत्रैकेन रण्डापुत्रकेण विषयप्रसक्तेन धनार्थिना चौरैः सह सङ्गतिः कृता। अन्यदा तैश्चौरै राज्ञो रत्नभाण्डागारे क्षानं दत्तं, स एव रण्डापुत्रक: प्रवेशितो मध्ये, निष्कासितं च किञ्चिद् द्रव्यजातं, अत्रान्तरे विज्ञातास्ते तस्करा दण्डपाशिकेन, चौराश्चौरा इति जल्पन्तो धाविता: सुभटा:, नष्टाश्चौरा;, गृहीतो रण्डापुत्रकः, Jain Education International. For Private & Personal Use Only www.jainelibrary.org
SR No.002712
Book TitleDharmaratnakarandaka
Original Sutra AuthorVardhmansuri
AuthorMunichandravijay
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1994
Total Pages466
LanguageHindi
ClassificationBook_Devnagari, Literature, & Religion
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy