________________
दयाऽधिकारः १९
,
मितमधुरभाषकाश्च दयापरा भवन्ति, ततस्तदनन्तरं दयाधिकारमाह, तत्रैते श्लोका:दया धर्मस्य सर्वस्वं दया धर्मस्य जीवितम् । -मातेव निजपुत्रस्य, दया धर्मस्य पालिका ॥ ३३९॥ दुःखिता: स्वत एवामी केsपि केनापि कर्मणा । प्राणिनोऽनादिसंसारे तेषांकिं वद चिन्तया ॥३४०॥ जायन्ते चात्र संसारे, शतशः सर्वेऽपि जन्तवः । मातृपित्रादिभावेन, कः प्रियः कोऽप्रियस्ततः ॥३४१॥ हन्मीति चिन्तनादेव, सुकृतं हन्ति जन्मजम् । त्रिजन्मसम्भवं हन्ति, सुकृतं हेतियोगतः || ३४२॥ घ्नंश्च जन्मशतोपात्तं, सर्वं हन्ति हितं शुभम् । आत्मैव च हतस्तेन, परं घ्नता न संशयः || ३४३ || यतो हन्यादसौ हन्ता, लभत्ते वधबन्धनम् । दशधा शतधा चैव, लक्षशः कोटिशोऽपि वा ॥ ३४४ || दृष्ट्वा च शस्त्रमुद्गीर्णं, भयात्तरललोचनः ।
वेपते विविधं प्राणी, सर्वो जीवनवाञ्छया ।। ३४५।। आक्रुष्टोऽपि प्रियस्वेति, दुःस्थो भवति मानसे । मार्यमाणस्य यदुःखं, तद्वेत्ति यदि केवली ||३४६ ॥ अर्थवन्तोऽर्थसारेण, राजा राज्येन रक्षति । येन तेन प्रकारेण, रक्षामर्हति जीवितम् ॥ ३४७॥ यथा स्वयं प्रणश्यन्ति, दूरं दूरेण देहिनः । मृत्योस्तथापरस्यापि न प्रियं मरणं क्वचित् ॥ ३४८ ॥ निःशेषं विश्वमेकत्र, धृतमन्यत्र जीवितम् ।
विश्वं विश्वं परित्यज्य, जीवो गृह्णाति जीवितम् ।।३४९।। एतद्धर्मस्य सर्वस्वं शेषो वचनविस्तरः । परेषां तन्न कर्तव्यं, यदात्मनि न रोचते ॥ ३५० ॥
१ BJC | जन्तवः शतशः समे ।
Jain Education International
For Private & Personal Use Only
:
३८७
www.jainelibrary.org