________________
३८६
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज्ञटीकासहिते धर्मरत्नकरण्डके
अम्ब ! शिशिरग्रीष्मवर्षारात्राणां को रमणीय इति ? तया भणितं त्रयोऽप्यशोभना: यत:- "सीयलवाइहिं वाजहिं दांत, सुंकड़ियहिं पावियहिं निसांत ।
'सीयलइ सीइंदाज्झ(झ) इवामुच्छेहिं न चडइ काम ॥१॥ खणि खणि पिज्जइ उन्हउ पाणिउ नइ-दह-कूव-तडागहं आणिउ । तावाहिं लूइं दहइ जु देहू, तसु उन्हाला नाउं भलेहु ॥२॥ हेट्टइ कादउ उप्परि पाणि, पइ पइ आवहिं कुहियउ घाणिउ । पाउसु परहओ फिट्ट बारह, जो अणुहरइ कुहिय चम्मारह ॥३॥
एतत् श्रुत्वा तैस्त्रिभिरपिरुष्टैः शप्तासोपहतश्रवणनयनव्यापारा दुःखेन तिष्ठति। कतिपयदिवसावसाने भणितो नागदत्तो नागश्रिया मम जनन्यास्तु त्वं वार्तामपि न पृच्छसि, तेन भणितं पृच्छामि गच्छामि च तत्र गतोऽसौ, तत्र स्थाने दृष्टा तथाविधा सा वृद्धा, विस्मयमापन्नेन तेन पृष्टास्तत्रैव सम्पिण्डिता: कार्पटिकादय:, भणितमेकेन दृष्टा मया सा पुरुषत्रिकेण शिशिरादिस्वरूपं पृच्छयमाना त्रयाणामपि निन्दापरायणा । ततस्तै रोषापूरितमानसैः प्रणष्टवचननयनश्रवणचेष्टा सा कृता । नागदत्तेन चिन्तितं निजनामसदृशं कुर्वत्या दूनिता: केचिदेतया दिव्यपुरुषा:, तेन चैवंविधा जातेति विचिन्त्य गृहीत्वा तां गत: स्वनगरं, प्रविष्टो गेहे, गेहिन्या पृष्टं कथमेवंविधमवस्थान्तरं सम्प्राप्ता अम्बा, तेन भणितं निजतुण्डफलमेतदिति कथित: सर्वोऽपि वृत्तान्त: । श्रुत्वेदं स्थिता सा लज्जयाधोमुखी, मातरं प्रतिपालयन्ती च क्लेशेन कालं गमयामास । एवं मधुरवचनानि वदन्ती प्रथमस्थविरा सुखपरम्परां प्राप्ता, द्वितीया पुनर्दुर्वाक्यदोषतो दुःखपरम्परामिति । तदेतदवगम्य सदा मधुरभाषिभिरेव भाव्यमिति।
तदिह मधुरभाषाभाषिणामेवमुच्चै-र्विपुलसुखसमृद्धिं वीक्ष्य सार्धं सुकीर्त्या । वदत विशदवाक्यं सर्वदा सत्यसारं, मितमधुरमुदारं विश्वसन्तोषकारम् ॥१॥
इति मृदुभाषिताऽधिकार:
१ सीयालइ सिइं दज्झहिं चाम । छेहिं न चडइ जु कीजइ काम । इति मनोरमाकहा ग्रन्थे पृ. ४१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org