________________
अधिकार १८ / श्लोक ३३७-३३८ / अमृतमुखीवृद्धा-कथा
३८५
विसर्जय मां, नाहमनया सार्धमेकमपि दिनं तव गृहे वसामि, तेन भणितं न त्वं विसर्जनयोग्या यस्या: शीलपरिपालने ईदृशो निश्चयः, एषा पुनर्लकितमर्यादा स्थविरा विसर्जनमप्यर्हति । तया भणितं यद्येवं ततोऽहं स्थिता, ततोऽसौ तद्वचनेन जननीं गृहीत्वा निर्गतो गृहात्, गतो योजनपञ्चकं, दृष्टाटवीमध्ये चैका प्रपा, मुक्त्वा तत्र जननीं समागतो निजगृहम्, सापि दृष्टा प्रपास्वामिना, भणिता च वृद्धे ! समागतो जनस्त्वया पानीयं पातव्यं वसनाशनादिचिन्तामहं तव करिष्यामि, प्रतिपन्नमनया, व्रजन्ति वासरा:।
अन्यदा जात: परस्परं शिशिरग्रीष्मवर्षारात्राणां विसंवादः, तत्र शिशिरो भणति मया मेदिनी भूषिता, ग्रीष्मवर्षारात्रावप्येवमेव भणत:, न छिद्यते तेषां विवाद:, भणितं शिशिरेण पृच्छाम: कमपि चिरवयसं, प्रतिपन्नं ताभ्यां, दृष्टा प्रपोपविष्टाऽमृतमुखी नाम स्थविरा, समागताश्च ते तदन्तिकं, प्रणता स्थविरा, आशीर्दानपुरस्सरं सम्भाषितास्तया कोमलवचनैः पृष्टाश्च किं निमित्तं वत्सा: ! समागता:? तैरुक्तमम्ब ! शिशिरग्रीष्मवर्षारात्राणां मध्ये क: श्लाघनीय: ? तयोक्तं त्रयोऽपि श्लाघ्यतमा एव। जओ- सिसिरि सुयंधु तेल्लु लाइज्जर, कुंकुमि अंगरागु निरु कज्जइ।
रुइ आहारि समग्गल वट्टइ, निडु वि भोयणु सोसु न कड्डइ ॥१॥ अच्छा चंदण अच्छा कप्पड, पाय पसारि विसुप्पइ चप्पड । गिम्हु वि विविहवणेहिं समाउलु वरहिंडोलय-रासरमाउलु ॥२॥ पाउसु पुत्तय ! पुण्णिहिं लब्भइ मेइणि सव्व जि नियजलि गज्जइ । ठाइ ठाइ रेल्लुयहिव 'माउलु पमुइयपामरकयकोलाहलु ॥३॥"
ततस्ते त्रयोऽपि परितुष्टा:, भणितास्तै: स्थविरा, अम्ब! घटमिमं मोदकभृतं त्वं प्रतिदिनं पश्यसि, एवं भणित्वा गतास्ते स्वस्थानं, सापि प्रतिदिनं मोदकान् भुञ्जाना कालं गमयति । अन्यदा चिन्तितं वध्वा यदि तस्या मृतशब्दः श्रूयते तदा मे निवृत्तं भवति हृदयं, भणितश्च [तया] नागदत्तः, आर्यपुत्र ! गत्वा अम्बाया: शुद्धिं लभस्व ? कथं सा तिष्ठति? गतोऽसौ, दृष्टा जननी सुन्दरशरीरा, दर्शितस्तया पुत्रस्नेहः, भोजित: परममोदकैः, निवर्तमानस्य च तस्य सम्बलनिमित्तं समर्पिता मोदकाः, प्राप्तो निजगृहं नागदत्त:, पृष्टो नागश्रिया कथमम्बा तिष्ठति? कथं वा भुङ्क्ते ? । कथितस्तेन सर्वोऽपि व्यतिकरः, दर्शिता मोदका:, कषायिता नागथ्री:, भणितो नागदत्तो यथा मम जननीं तत्र मुञ्च निजजननीं चेहानय । तथैव कृतं तेन । पुनरपि सम्पन्नस्त्रयाणामपि ऋतुदेवानां विसंवादः, भणितं शिशिरेण पुनरप्यन्यं कमपि पृच्छाम:, आगच्छद्भिस्तैर्दृष्टा सा कटुकमुखी, अपूर्वेति कृत्वा च पृष्टा १ = रेला इति भाषायाम् । २ = कलकलशब्दयुक्तम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org