________________
३८४
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज्ञटीकासहिते धर्मरत्नकरण्डके
दुष्प्रतिकारमिति कृत्वा विसर्जितो राज्ञा, गतस्तस्मिन्नेव स्थाने, तथैव कालं गमयति । अन्यदा तमःस्तोमान्धकारायां रजन्यां श्रुतस्तेन शार्दूलशब्दः, भयभीतोऽन्यत्र कुत्रापि निलयनमलभमान: प्रविष्टः सङ्कटद्वारांकुम्भिकां, प्रभाते निर्गन्तुमशक्नुवंस्तृषाक्षुधाभिभूतो नारक इवघटिकालये विसंस्थूलं तडफडामानो विरसंस्तत्रैव विनाशमापन्न: । समागता 'भाण्डानयननिमित्तं तनया: प्रेक्षते पितरम्, इतस्ततो गवेषयद्भिर्दृष्टोकुम्भिकायां पञ्चत्वमुपगतः, कुम्भिकामुखे चोपदेशमैं गाथायुगलं, तद्यथा
वग्घभएण पविट्ठो, छुहाहओ निग्गमम्मि असमत्थो। अट्टवसट्टोवगओ, पुत्तय! पत्तो अहं निहणं ॥१॥ इह लोगम्मि दुरंते, परलोगविवाहगे दुहविवागे।
महवयणेणं पावे, वज्जिज्जा पुत्तय ! अणक्खे ॥२॥ अवधार्य तदर्थं, कृत्वा जनकस्य मृतकृत्यानि विगतशोका गृहकार्याणि कर्तुमारब्धास्तत्तनया:, तस्मात्प्रिये ! परान:रैवमनर्थभाजनं प्राणिनो भवन्ति, यद्यहं निजजनन्या विनयं प्रयुञ्जे तत्किं तव शिरो बाधते ? विज्ञातनागदत्तनिश्चया स्थिता मौनेन नागथ्री:, व्रजन्ति वासरा: ।
अन्यस्मिन् दिने भणिता सा नागदत्तेन प्रिये ! यदि त्वं निजश्वश्रूशुश्रूषां करोषि तदाहं देशान्तरे व्रजामि वाणिज्यार्थं, हर्षवशविकसितवदनया प्रतिपन्नमनया, गतो नागदत्त:, प्राप्तावसरया चिन्तितं नागश्रिया, साधयामि साम्प्रतं निजसमीहितम् । तत आहारनिरोधं कुर्वत्या क्रमेण महातपस्विनीव शोषितशरीरासा कृता तया, तेनोत्थातुमपि सा न शक्नोति, परिशुषितमांसरुधिराप्रसृतश्वासा गलन्नयना च कथंकथमपि जल्पन्ती नि:स्थामा सा गमयति दिनानि, यत:
वहुयाओ सासुयाणं, कलुसियहिययाओ जंपि चिंतिंति ।
सइ सामत्ये जं पुण, कुणंति किं तेण भणिएण ॥१॥ दुःखभरभृतायां कण्ठप्राणायां समागतो नागदत्त:, निपतितस्तच्चरणयो:, पृष्टा जननी कुशलोदन्तं, विमानिताहमनया, कामं बालस्त्वमिति वक्तव्ये स्खलदक्षरं कामपाल इति जल्पितं जनन्या, पृष्टा तेन नागश्री:, प्रिये ! किं ते श्वश्रू: समुल्लपति ? तत्कालोत्पन्नप्रतिभया' जल्पितमनया तदेषा समुल्लपति यद्वक्तुमपि न शक्यते, तथापि तव कथ्यते, यस्मिन्नेव दिने आर्यपुत्र: प्रचलितस्तस्मिन्नेव दिवसे भणिताहमनया वत्से ! अस्ति मम पूर्वपरिचित: कामपालो नाम पुरुष:, अनपत्या च त्वं, तद्वत्से! रजन्यां तं प्रच्छन्नं प्रवेशयामि, न प्रतिपन्नम् । मया पुन: पुनर्भणन्त्या: समतिक्रान्तानि सप्तदिनानि, तथापि मया न प्रतिपन्नं, तत आज्ञाखण्डनं मन्यमाना सा भोजनमपि न करोतीति! तत: समुत्पन्नकोपेन जल्पितं तेन मा करोतु भोजनं, म्रियतां किमनया? उत्तीर्णचित्तमिति ज्ञात्वा भणितं नागश्रिया आर्यपुत्र! १ कुलालान BIC AR°प्रातिमेन ज” BICT
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org