Book Title: Dharmaratnakarandaka
Author(s): Vardhmansuri, Munichandravijay
Publisher: Shardaben Chimanbhai Educational Research Centre

View full book text
Previous | Next

Page 420
________________ अधिकार २० / श्लोक ३५६-३७२ / सङ्घपूजामाहात्म्यम् .. ३९३ किं किंन पूजितं तेन? सर्वमपीत्यर्थः, सङ्घो ज्ञानादिगुणगणयुक्तो जन्तुसमुदायो येनात्र पूजितोऽर्चितः, न चान्यत्र नैवान्यतरदीदृशमीदृशं पात्रं भाजनं पवित्रं शुचि भुवि पृथिव्यां विद्यते समस्तीति पञ्चमश्लोकार्थः ॥३६०॥ न केवलं सङ्घः सुरासुरनरेन्द्ररेव पूज्यते, किं तर्हि? जिनैरपीत्येतद्दर्शयन्नाह-यस्य नि:शेषसंसारपारवर्ती जिनेश्वर इत्यादि श्लोकत्रयं सुगममेव ॥३६१-३६३॥ अथ पर: प्राह-ननु कथं पञ्चदशकर्मभूमिवर्ती प्रतिनियतदेशवर्तिना श्रावकेण सङ्घः सम्पूजयितुं शक्यते? तद्देशस्यैव पूजयितुं शक्यत्वात्, सत्यमुक्तं, द्रव्यतोऽसौ देशपूजक एव, भावतस्तु सकलमपि सङ्घ पूजयतीति दर्शयन्नाह-सर्वोऽपि पूजित: सङ्घः सङ्घदेशेऽपि पूजिते इत्यादि श्लोकद्वयं सुगममेव ।।३६४-३६५।। अथ सङ्घपूजकस्य स्तुतिं कुर्वन् फलं दर्शयन् श्लोकत्रयमाह-तत्रासन्नसिद्धिकस्येदं लिङ्गमाहर्मनीषिण इत्यादि श्लोकद्वयं पाठसिद्धमेव, तृतीयस्तु व्याख्यायते-त्यक्ता उज्झिता दुर्गतिवर्तनी कुगतिसरणिः, प्रतिहता निराकृता कष्टा दुरन्तदुःखरूपा परप्रेष्यता परकर्मकरत्वं, मानुष्यं मानुषत्वं सफलीकृतं सफलतां नीतं, शशधरे चन्द्रमसि स्वमात्मीयं नाम नामधेयं संलेखितं विन्यस्तं. सन्ध्यारागचला: सन्ध्याकालरक्तानुसमप्रभा: [श्रियो लक्ष्म्य:] सफलतां फलवतीत्वं तैरेव सङ्घपूजकैरेव सम्प्रापिता लम्भिता यैर्यकैः सद्वित्तचयेन शोभनद्रव्यजातेन शुद्धमनसा निर्मलान्त:करणेन श्रीसङ्घपूजा श्रीगुणवच्चतुर्विधश्रमणगणसपर्या कृता विहितेति ॥३६६३६८॥ अथ सङ्घपूजाफलमेव रूपकत्रयेणाह-संसारसागरे इत्यादि, अस्य व्याख्या-संसारसागरे भवसमुद्रे पोतो यानपात्रं, ज्ञानादिगुणा एव भाण्डं क्रयाणकं तद्विभर्तीति ज्ञानादिगुणभाण्डभृत्, येनायमर्चित: सङ्घस्तेन तीर्णो भवोदधिरिति सुगमम् ।।३६९।। यथाशक्ति यथाभक्ति, यथाकालं यथाधनम् । सङ्घपूजा सदा कार्या, जन्मसाफल्यमिच्छता ॥१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466