________________
अधिकार २० / श्लोक ३५६-३७२ / सङ्घपूजामाहात्म्यम् ..
३९३
किं किंन पूजितं तेन? सर्वमपीत्यर्थः, सङ्घो ज्ञानादिगुणगणयुक्तो जन्तुसमुदायो येनात्र पूजितोऽर्चितः, न चान्यत्र नैवान्यतरदीदृशमीदृशं पात्रं भाजनं पवित्रं शुचि भुवि पृथिव्यां विद्यते समस्तीति पञ्चमश्लोकार्थः ॥३६०॥
न केवलं सङ्घः सुरासुरनरेन्द्ररेव पूज्यते, किं तर्हि? जिनैरपीत्येतद्दर्शयन्नाह-यस्य नि:शेषसंसारपारवर्ती जिनेश्वर इत्यादि श्लोकत्रयं सुगममेव ॥३६१-३६३॥
अथ पर: प्राह-ननु कथं पञ्चदशकर्मभूमिवर्ती प्रतिनियतदेशवर्तिना श्रावकेण सङ्घः सम्पूजयितुं शक्यते? तद्देशस्यैव पूजयितुं शक्यत्वात्, सत्यमुक्तं, द्रव्यतोऽसौ देशपूजक एव, भावतस्तु सकलमपि सङ्घ पूजयतीति दर्शयन्नाह-सर्वोऽपि पूजित: सङ्घः सङ्घदेशेऽपि पूजिते इत्यादि श्लोकद्वयं सुगममेव ।।३६४-३६५।।
अथ सङ्घपूजकस्य स्तुतिं कुर्वन् फलं दर्शयन् श्लोकत्रयमाह-तत्रासन्नसिद्धिकस्येदं लिङ्गमाहर्मनीषिण इत्यादि श्लोकद्वयं पाठसिद्धमेव, तृतीयस्तु व्याख्यायते-त्यक्ता उज्झिता दुर्गतिवर्तनी कुगतिसरणिः, प्रतिहता निराकृता कष्टा दुरन्तदुःखरूपा परप्रेष्यता परकर्मकरत्वं, मानुष्यं मानुषत्वं सफलीकृतं सफलतां नीतं, शशधरे चन्द्रमसि स्वमात्मीयं नाम नामधेयं संलेखितं विन्यस्तं. सन्ध्यारागचला: सन्ध्याकालरक्तानुसमप्रभा: [श्रियो लक्ष्म्य:] सफलतां फलवतीत्वं तैरेव सङ्घपूजकैरेव सम्प्रापिता लम्भिता यैर्यकैः सद्वित्तचयेन शोभनद्रव्यजातेन शुद्धमनसा निर्मलान्त:करणेन श्रीसङ्घपूजा श्रीगुणवच्चतुर्विधश्रमणगणसपर्या कृता विहितेति ॥३६६३६८॥
अथ सङ्घपूजाफलमेव रूपकत्रयेणाह-संसारसागरे इत्यादि, अस्य व्याख्या-संसारसागरे भवसमुद्रे पोतो यानपात्रं, ज्ञानादिगुणा एव भाण्डं क्रयाणकं तद्विभर्तीति ज्ञानादिगुणभाण्डभृत्, येनायमर्चित: सङ्घस्तेन तीर्णो भवोदधिरिति सुगमम् ।।३६९।।
यथाशक्ति यथाभक्ति, यथाकालं यथाधनम् । सङ्घपूजा सदा कार्या, जन्मसाफल्यमिच्छता ॥१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org