________________
३९४ .
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज्ञटीकासहिते धर्मरत्नकरण्डके
गृहिणा सद्विवेकेन, संसारभयभीरुणा। पूजनीय: सदा सङ्घः, कृतार्थं जन्म कुर्वता ॥२॥
इति श्लोकद्वयं कण्ठ्य म् ॥३७०-३७१॥ अथ सङ्घपूजाकर्तुरासन्नसिद्धिकत्वं दर्शयन् दृष्टान्तमाह-आसन्नसिद्धिकैरेवेत्यादि श्लोक: सुगमः ॥३७२॥
धनसारकथानकं त्विदंअस्तीह मन्दरोदार-सुरमन्दिरमण्डितम् । कैलासपर्वतोत्तुङ्ग-प्रेवत्प्राकारवेष्टितम् ॥१॥ भूरिपुण्यजनाकीर्णं, कुबेरपुरसन्निभम् । पुरं विश्वपुरं नाम, महाधनजनाकुलम् ॥२॥ बभूव तत्र विख्यातो, राजमान्यो महाधन: । महायशा महात्यागी, सार्थवाह: सुमङ्गल:।।३।। प्रकृत्यैव सदाचार:, सत्यसन्ध: सदाशय: । दयादाक्षिण्यसौजन्य-गाम्भीर्यादिगुणालय: ॥४॥ परोपकारतानिष्ठः, सुसन्तुष्टः प्रियंवदः । पापभीरु: सुधीरात्मा, धर्मिष्ठो धार्मिकप्रियः ॥५॥ कल्पवृक्ष इवाध्यक्ष-पूरितार्थिमनोरथ: । सद्बन्धुकुमुदानन्दी, सद्वृत्त: पार्वणेन्दुवत् ।।६।। सुरूप: सुभग: श्रीमान्, कृतज्ञः सुकृती कृती । सदादेयः सतां मुख्य:, शान्तमूर्तिर्गुणप्रियः ॥७॥ बभूव प्रेयसी तस्य, प्रीतिपात्रं प्रियंवदा । सुनन्दाख्या सतीमुख्या, बन्धुवर्गस्य वत्सला ॥८॥ मुक्तावलीव सद्वृत्ता, सद्गुणग्रामराजिनी । सौम्या सर्वजनानन्दा, चन्द्रमूर्तिरिवामला ॥९॥ पद्मपत्रविशालाक्षी, विशालकमलालया। मूर्ता लक्ष्मीरिवात्यन्तं, सर्वलोकस्य वल्लभा ॥१०॥ सीतेव रूपसम्पन्ना, शीलालङ्कारधारिणी । ध्वस्तदोषारुणस्येव, मूर्तिर्लब्धमहोदया ॥११॥ सालङ्कारा सुवर्णाढ्या, सुपदा लक्षणान्विता । सदर्था जैनवाणीव, विबुधानन्ददायिनी ॥१२॥ देवानां पूजने सक्ता, गुरूणां भक्तिकारिका । स्त्रीजनोचितकार्येषु, दक्षा सरलमानसा ॥१३॥ हर्षोल्लसितरोमाञ्चा, जल्पन्ती मधुरं वच: । या ददौ सर्वदा दानं, दीनादिभ्यो निरुत्सुका ॥१४॥ सप्रमोदोऽनया साधु, सार्थवाह: सुमङ्गलः । कुर्वाण: स्वकुलाचारं, बुभुजे विषयान् वरान् ॥१५॥ अन्यदा बहिरुद्याने, चम्पकामोदनामनि। विहरन्त: समायाता:, सूरय: शीलसुन्दरा:॥१६॥ भव्यपद्माकरादित्या, बहुशिष्या बहुश्रुताः । स्थिता: साधूचिते स्थाने, सर्वदोषविवर्जिते ॥१७।। वन्दनार्थं समायातो, नागरिको जनो बहुः । सुमङ्गलोऽपि सानन्दः, सपत्नीक: समाययौ ॥१८॥ ततो गम्भीरनादेन, सूरिभिर्गुणभूरिभिः । महामोहं निरस्यन्ती, प्रारब्धा धर्मदेशना ॥१९॥ भो भो भव्या भवादृ:-मङ्गु मोक्षाभिकाङ्गिभिः । विमुच्याधर्मकर्माणि, यतितव्यं धर्मकर्मसु ॥२०॥ यत: सद्धर्म एवात्र, सर्वसौख्यप्रसाधकः । साधुश्रावकभेदेन, स च द्वेधोदितो जिनैः ॥२१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org