________________
अधिकार २० / श्लोक ३७२ / धनसारकथा
३९५
तत्र क्षमादिभेदेन, प्रथमो 'दशधोदितः । सद्दर्शनादिसंयुक्तः, पञ्चव्रतविभूषितः ॥२२॥ शुद्धसम्यक्त्वमूलीय:, पञ्चाणुव्रतसंयुत: । द्वितीयो गृहिणां धर्मो, नानाभिग्रहभूषितः ॥२३॥ . तत्यक्त्वा सर्वसावा, सर्वसङ्गं विमुच्य च । कुरुध्वं साधुसद्धर्म, यदीच्छा सिद्धिशर्मणि ॥२४|| अथवा देशतः कृत्वा, सावद्यारम्भवर्जनम् । कुरुध्वं श्रावकं धर्मं, सुश्रावकनिषेवितम् ॥२५॥ धर्मार्थिना च भी नित्यं, कर्तव्यं देवतार्चनम् । त्रिसन्ध्यं शुद्धभावेन, विधिना कुसुमादिभिः ॥२६॥ देवश्चात्र स विज्ञेयो, य: क्षीणाशेषकल्मष: । नि:शेषदोषनिर्मुक्तः, सर्वज्ञ: सर्वदर्शनी ॥२७॥ तथा सद्गुरुसद्भक्ति-विधेया विधिपूर्वकम् । दानसन्मानसत्कारै-वैयावृत्त्यार्थनादिभिः ॥२८॥ सद्गुरुश्च स विज्ञेयो, यो गीतार्थो बहुश्रुतः । अक्षताचारचारित्रो, नि:सङ्गो नि:स्पृहस्तथा ॥२९।। तदन्ते शुद्धसिद्धान्तं(न्त:), श्रोतव्यं(व्य:) शुद्धचेतसा । श्रुत्वा तदनुसारेण, कर्तव्या सदनुष्ठितिः॥ तथा परोपकारोऽपि, कर्तव्य: शक्तित: सदा । परोपकारिता येन, सत्पुरुषत्वलक्षणम् ॥३१॥ तत: सन्तोषिभिर्भाव्यं, न भाव्यमतिलोभिभि: । यत: सन्तोषिणां नित्यं, जायते परमं सुखम् ॥३२॥ तथा भाव्यं भवस्यास्य, निर्गुणत्वं पदे पदे। यत्र-मित्राण्यमित्राणि, जायन्ते स्वजना: परे ॥३३॥ माता जनी जनीर्माता, पिता पुत्रः सुत: पिता । भ्राता रिपू रिपुर्धाता, यत्रासौ निर्गुणो भव: ॥३४॥ तथा नष्टे विनष्टे वा, मृते वा वल्लभे जने। विदित्वा भवनैर्गुण्यं, शोक: कार्यो न धीधनैः ।।३५।। शोको हि धर्मनाशाय, दुःखाय च प्रजायते । नापि कञ्चिद्गुणं पुंसां, पुष्णातीह कृतोऽपि हि ॥३६॥ तथा भो भो निहन्तव्याः , कषाया दुष्टशत्रव: । हते स्नेहे स मोहोऽपि, हत एव न संशयः ॥३७॥ हते मोहे हतान्येव, शेषकर्माण्यपि स्फुटम् । सर्वकर्मप्रहाणे च जायते शाश्वतं सुखम् ॥३८॥ तथा लोकविरुद्धानि, वर्जनीयानि दरत: । तद्वर्जनपरो येन, सर्वदा श्लाघ्यते जनैः ॥३९॥ दातव्यं सर्वदा दानं, दीनादिभ्योऽनुकम्पया। सुपात्रेभ्यश्च सद्भक्त्या, निर्जरार्थं विधानतः ॥४०॥ सुक्षेत्रे वापयेद्बीजं, सुपात्रे निक्षिपेद्धनम् । सुक्षेत्रे च सुपात्रे च, निक्षिप्तं न विनश्यति ॥४१॥ पालनीयं वरं शीलं, सर्वतो देशतोऽपि वा। शीलं हि सर्वदा येन, नि:शेषगुणभूषणम् ।।४२।।यत:
ऐश्वर्यस्य विभूषणं चतुरता शौर्यस्य वाक्संयमो, रूपस्योपशमः श्रुतस्य विनयो वित्तस्य पात्रे व्ययः । अक्रोधस्तपसः क्षमा प्रभवतो धर्मस्य निर्वाच्यता,
सर्वेषामपि सर्वकालनियतं शीलं परं भूपणम् ।। तथा द्वादशभेदेऽपि, तप:कर्मणि शक्तित: । उद्यतव्यं यतो यान्ति, सर्वकर्माणि सङ्क्षयम् ॥४४॥ यथा यथा तपस्तीवं, तपस्यन्ति तपस्विन: । तथा तथा प्रलीयन्ते कर्माण्यात्मप्रदेशत: ॥४५॥
१ दशधा गदित:-BJCI
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org