SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ ३९६ आचार्य श्रीवर्धमानसूरिरचिते स्वोपज्ञटीकासहिते धर्मरत्नकरण्डके यत:- ताविजं तह पत्थरह, जह निव्वट्टइ लोहु । तह जीवह तवताविय, फिट्टइ कम्मविरोहु ॥४६॥ तथा भव्या सदा भाव्या; भावना भवभेदिका । यतोऽत्र भावनाहीनं, दानाद्यपि न शस्यते ॥४७॥ तथा भवद्भिर्भो भव्या:, कर्तव्या शिष्टसङ्गतिः । उन्मार्गस्य निराकी, सन्मार्गस्य प्रवर्तिनी ॥४८॥ शिष्टसङ्गेन भव्यानां, दूरं नश्यति दुर्मति: । सुमतिर्वर्धते नित्यं, स्वार्थसिद्धिस्ततो ध्रुवा ॥४९॥ । स्वार्थसिद्धया मन: स्वास्थ्यं, मन:स्वास्थ्ये सुधीरधी: । 'सुष्ठधीरधियो नित्यं, धर्मध्यानं प्रवर्तते। धर्मध्यानप्रवृत्त्या च, शुक्लध्यानमवाप्यते । तत: कर्मक्षयोऽवश्यं, ततो मोक्ष: सदासुखः ॥५१॥ तथा गुणवल्लोकस्य, विधेयो विनयोऽनिशम् । विनयो हि नृणां येन, सर्वसम्पत्तिकारणम् ।।५२॥ निर्धनोऽपि कुरूपोऽपि, विदेश्योऽपि जडोऽपि हि। विनीतो जायते जन्तु-वल्लभ: सर्वदेहिनाम् ॥५३॥ लभते च वरां विद्यां, कीर्तिं लक्ष्मी च सुन्दराम् । दुर्विनीतस्तु नो स्वार्थं, कदाचिदपि साधयेत्॥ तथा दूरं परित्याज्या:, शब्दादिविषया बुधैः । विषयिणां हि जायन्ते नानारूपा: कदर्थना: ॥५५।। यत:- कलरिभितमधुरगान्धर्व-तूर्ययोपिद्विभूषणरवादयैः । श्रोत्रावबद्धहदयो हरिण इव विनाशमाप्नोति ॥५६॥ गतिविभ्रमेगिताकार-हास्यलीलाकटाक्षविक्षिप्तः । रूपावेशितचक्षुः, शलभ इव विपदयते विवशः ॥१७॥ *स्नानाङ्गरागवर्तिक-वर्णकधूपांधिवासपटवासैः।। गन्धभ्रमितमनस्को, मधुकर इव नाशमुपयाति ॥५८॥ मिष्टान्नपानमांसो-दनादिमधुररसविषयगृद्धात्मा । गलयन्त्रपाशवद्धो, मीन इव विनाशमाप्नोति ॥५९॥ शयनासनसम्बाधन-सुरतस्नानानुलेपनासक्तः । स्पर्शव्याकुलितमति-गजेन्द्र इव वद्धयते मूढः ॥६०॥ एवमनेके दोपाः प्रणएशिष्टेटदृष्टचेष्टानाम् । दुर्नियमितेन्द्रियाणां, भवन्ति वाधाकरा बहुशः ॥६१॥ एकैकविषयसङ्गा-द्रागद्वेपातुरा विनष्टास्ते । किं पुनरनियमितात्मा, जीवः पञ्चेन्द्रियवशातः ॥६२।। [प्रशमरति प्रकरणे का. ४१-४७] तथा भो: ! सर्वदा कार्यो, विवेकः सर्वकर्मसु । विवेकादेव येनेह, कार्यसिद्धिर्भवेन्नृणाम् ॥६३॥ विवेकादेव सद्धर्मो, विवेकादेव पूज्यता। विवेकादेव सत्कीर्ति-विवेकादेव सद्गतिः ॥६४॥ १ सुष्ठधीरधिया धीरंध B॥ २ स्नानाङ्गरागवर्तक-वर्तिक धूपा BJC || Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002712
Book TitleDharmaratnakarandaka
Original Sutra AuthorVardhmansuri
AuthorMunichandravijay
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1994
Total Pages466
LanguageHindi
ClassificationBook_Devnagari, Literature, & Religion
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy