SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ अधिकार २० / श्लोक ३७२ / धनसारकथा विवेको निर्मलं चक्षु-र्मोक्षमार्गप्रदर्शकम् । विवेकः सुन्दरोदारं, नृणां हृदयमण्डनम् ||६५|| तथा हितं मितं सत्यं, वक्तव्यं कोमलं वचः । कोमलं भाषितो येन, जीवो रुष्टोऽपि तुष्यति ||६६|| न तथा शशी न सलिलं, न चन्दनं नापि शीतलच्छाया । प्रह्लादयन्ति हृदयं, यथा हि मधुराक्षरा वाणी ॥ ६७ ॥ न तथा विषं न शस्त्रं, नाग्निर्न रिपुर्न दारुणो व्याधिः । उद्वेजयन्ति हृदयं, यथा कटुकभाषिणी वाणी ॥ तथा भवद्भिर्भो भाव्यं, सर्वदापि दयालुभिः । दया हि येन धर्मस्य, सर्वस्वमिति गीयते ॥ ६९ ॥ दानं शीलं तपो ध्यानं, मौनक्षान्त्यादयो गुणाः । सत्यं शौचं च पाण्डित्यं, दयायुक्तं हि शोभते ॥ यतः पठितं श्रुतं च शास्त्रं, गुरुपरिचरणं च गुरुतपश्चरणम् । घनगर्जितमिव विजलं, विफलं सकलं दयाविकलम् ।। ७१ ।। विनयविहीनः शिष्यो, गुरुरपि तत्त्वोपदेशताशून्यः । ज्ञानं च जीवरक्षण रहितं भस्मनिहूतं नियतम् ॥ तथा भो भो यथाशक्त्या, विधेया सङ्घपूजना । सङ्घ मुक्त्वा यतो नास्ति, पूज्यमन्यज्जगत्त्रये । ७३ । सम्पूज्या हि गुणा एव, न पूज्यं देहिनां वपुः । ते च सर्वेऽपि विद्यन्ते, सङ्घ सातिशया यतः ॥७४॥ | सुसाधुव्रतिनीश्राद्ध-सुश्राविकाप्रभेदतः । सङ्घश्चतुर्विधो ज्ञेय:, स चावश्यं गुणान्वितः ॥ ७५ ॥ गुणा: पुनर्वरं ज्ञानं, दर्शनं चरणं तथा । तपः सत्यं च शौचं च, सर्वं सङ्खेऽस्ति सर्वदा ॥ ७६ ॥ एवमादिप्रबन्धेन, सूरिणा देशना कृता । प्रबुद्धा बहवो लोका, व्रतं च प्रतिपेदिरे ॥७७॥ देशतो विरतिं केचित्, सम्यक्त्वमपरे तथा । अन्ये तु मद्यमांसादि - विरतिं प्रतिपेदिरे ॥७८॥ अत्रान्तरे समुत्थाय, सार्थवाहः सुमङ्गलः । नत्वा सूरिं बभाणैवं, ललाटघटिताञ्जलिः ॥७९॥ भगवन् ! श्रावकं धर्मं, ममाख्याहि विशेषतः । तमेव कर्तुमिच्छामि, साधुधर्मे न मे मतिः ॥ ८० ॥ सूरिश्चाह शृणु श्रीमन् !, सावधानं प्रकथ्यते । इह हि श्रावकेणादौ, दातव्याऽऽलोचना गुरोः ॥ ८१ ॥ त्रिविधं त्रिविधेनैव, सम्यग्मिथ्यात्वतस्ततः प्रतिक्रम्य समाश्रेयं सम्यक्त्वं सुविधानतः ||८२|| विधिश्चायं ३९७ समणोवासओ पुव्वामेव मिच्छत्ताओ पडिक्कमति, सम्मत्तं उवसंपज्जत्ति, नो से कप्पइ अज्जपभिंति अन्नउत्थिए वा अन्नउत्थियदेवाणि वा अन्नउत्थियपरिग्गहियाणि वा चेइयाणि दत्तए वा नसित्तए वा, पुव्विं अणाल [वि]त्तएणं वा, आलवित्तए वा संलवित्तए वा, तेसिं असणं वा पाणं वा खाइमं वा साइमं वा दाउँ वा अणुपयाउं वा अन्नत्थरायाभिओगेणं बलाभिओगेणं देवयाभिओगेणं गुरुनिग्गहेणं वित्तीकंतारेणं सेयं सम्मत्ते पसत्थसम्मत्तमोहणीयकम्माणुवेयणोवसमखयसमुत्थे, पसमसंवेगादिलिंगे सुहे आयपरिणामे पन्नत्ते । [प्रत्याख्यानाऽऽवश्यकसूत्रे हारिभद्री टीका पृ. २१४] For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.002712
Book TitleDharmaratnakarandaka
Original Sutra AuthorVardhmansuri
AuthorMunichandravijay
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1994
Total Pages466
LanguageHindi
ClassificationBook_Devnagari, Literature, & Religion
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy