________________
३९२
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज्ञटीकासहिते धर्मरत्नकरण्डके
त्यक्ता दुर्गतिवर्तनी प्रतिहता कष्टा परप्रेष्यता, मानुष्यं सफलीकृतं शशधरे स्वं नाम संलेखितम। सन्ध्यारागचला: श्रिय: सफलतां तैरेव सम्प्रापिता, यैः सद्वित्तचयेन शुद्धमनसा श्रीसङ्घपूजा कृता ॥३६८।। संसारसागरे पोतो, ज्ञानादिगुणभाण्डभृत् । येनायमर्चित: सङ्घ-स्तेन तीर्णो भवोदधिः ॥३६९।। यथाशक्ति यथाभक्ति, यथाकालं यथाधनम् । सङ्घपूजा सदा कार्या, जन्मसाफल्यमिच्छता ॥३७०॥ गृहिणा सद्विवेकेन, संसारभयभीरुणा। पूजनीय: सदा सङ्घः, कृतार्थं जन्म कुर्वता ॥३७१॥ आसन्नसिद्धिकैरेव, सङ्घश्च पूज्यते नरैः । सङ्घपूजारतश्चात्र, धनसारो निदर्शनम् ।।३७२॥
इति श्लोका: सप्तदश प्राय: सुगमा:, तथापि किञ्चिद्व्याख्यायते-कर्मद्रुमकुठारायेति । कर्माण्येव द्रुमा: कर्मद्रुमास्तेषां छेदकत्वात्कुठार इव कुठार: परशुस्तस्मै कर्मद्रुमकुठाराय, सर्वकल्याणकारिणे समस्तश्रेयोविधायिने, जगन्मङ्गलभूताय भुवनमङ्गलकल्पाय, सत्पात्राय शोभनभाजनाय, महात्मने पूज्यात्मने इति प्रथमश्लोकार्थः ॥३५६।।
तथा ज्ञानदर्शनचारित्रसम्पदां कुलसद्मने कुलगृहाय, संसारसारभूताय भवप्रधानकल्पाय, सर्वदासर्वस्मिन् काले सुखहेतवेसुखकारणायेति द्वितीयश्लोकार्थः ।।३५७।।
श्रीमत्सङ्घसमुद्रायेति श्रीमांश्चासौ सङ्घश्च श्रीमत्सङ्घ:, स एव समुद्रस्तस्मै श्रीमत्सङ्घसमुद्राय, गुणरत्नभृतात्मने ज्ञानादिगुणमाणिक्यात्मकाय, पूजां सपर्या पुण्यजन: पुण्यप्राणी कोऽपि कश्चित्कुरुते विधत्ते भक्तिनिर्भरो भक्तिप्रब इति तृतीयश्लोकार्थः ॥३५८॥
शिवसद्मसमारोहणनि:श्रेणि: सिद्धिसौधसमारोहणाधिरोहिणी, सरला दीर्घा, समा वैषम्यरहिता, गुणगात्रैर्ज्ञानादिगुणगात्रकै: समाकीर्णा व्याप्ता सङ्घभक्तिः सङ्घाराधना गरीयसी महीयसीति चतुर्थश्लोकार्थः ।।३५९।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org