________________
३९१
सङ्घपूजाधिकारः २०
उक्तो दयाधिकारः, इह च परमार्थवृत्त्या दयालव: सर्वज्ञशासनस्थिता एव भवन्ति, ते च यथाशक्त्या चतुर्विधमपि श्रमणसद्धं पूजयन्ते च, अतो दयाधिकारानन्तरं सङ्घपूजोच्यते, तत्रैते श्लोका:
कर्मद्रुमकुठाराय, सर्वकल्याणकारिणे। . जगन्मङ्गलभूताय, सत्पात्राय महात्मने ॥३५६॥ ज्ञानदर्शनचारित्र-सम्पदा कुलसद्मने। संसारसारभूताय, सर्वदा सुखहेतवे ॥३५७॥ श्रीमत्सङ्घसमुद्राय, गुणरत्नभृतात्मने। पूजां पुण्यजनः कोऽपि, कुरुते भक्तिनिर्भरः ॥३५८॥ शिवसद्मसमारोह-नि:श्रेणि: सरला समा। गुणगात्रै: समाकीर्णा; सङ्घभक्तिर्गरीयसी ॥३५९॥ किं किं न पूजितं तेन ? सङ्घो येनेह पूजितः । न चान्यदीदृशं पात्रं, पवित्रं भुवि विद्यते ॥३६०॥ यस्य नि:शेषसंसार-पारवर्ती जिनेश्वरः । त्रिलोककृतपूजोऽपि सपर्यां कुरुते स्वयम् ॥३६१।। तीर्थप्रवर्तनाकाले, भ्रामरीदानपूर्वकम् । कृतज्ञतां पुरस्कुर्वन्, यतो नौति जिनोऽपि तम् ॥३६२॥ सङ्घवात्सल्यत: पूर्वं, पश्चात्तीर्थकरोऽजनि। अत: कारणभावेन, सङ्घः पूर्वो निगद्यते ॥३६३॥ सर्वोऽपि पूजित: सङ्घः, सङ्घदेशेऽपि पूजिते । यथैकपुष्पदानेऽपि, देवो भवति पूजितः ॥३६४॥ सर्वसङ्गसपर्यायाः, फलमाप्नोति मानवः । परिणामभेदतो यस्मात् पुण्यापुण्यव्यवस्थितिः ॥३६५।। आसन्नसिद्धिकस्येदं, लिङ्गमाहुर्मनीषिणः । यत्सङ्घपूजनं शक्त्या , भक्तिसारं विधीयते ॥३६६॥ सङ्घपूजाफलं प्रोक्तं, परं सिद्धिस्तथाऽपरम् । .. मामरेन्द्रनागेन्द्र-श्रिय: सर्वसुखप्रदाः ॥३६७।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org