Book Title: Dharmaratnakarandaka
Author(s): Vardhmansuri, Munichandravijay
Publisher: Shardaben Chimanbhai Educational Research Centre
View full book text
________________
३९८
आचार्य श्रीवर्धमानसूरिचिते स्वोपज़टीकासहिते धर्मरलकरण्डके
तत्र सम्यक्त्वं निसर्गा-भिगमाभ्यां लभ्यते, तत्र निसर्ग: स्वभाव:, अभिगमो गुरुसकाशे धर्मश्रवणं, तत्र नैसर्गिकं सम्यक्त्वं सुश्रावकसत्कपुत्रपौत्राणां वेदितव्यं, स्वयम्भूरमणादिसत्कमत्स्यादीनां वा, ते हि तत्र प्रतिमासंस्थानानि पद्मानि मत्स्यान् वा समालोक्य विशुद्धाध्यवसायसमायोगेन सञ्जातजातिस्मरणा: सम्यक्त्वं प्रतिपद्यन्ते, अधिगमनेन पुन: सद्गुरुसकाशे धर्मश्रवणं कुर्वतां संवेगतो जीवाजीवादिसमस्ततत्त्वानां यदुत्पद्यते तदधिगमसम्यक्त्वमिति, अस्य तु श्रमणोपासकेनेमे पञ्चातिचारा ज्ञातव्याः, न समाचरितव्या:, तद्यथा-शङ्का, काङ्क्षा, विचिकित्सा, परपाखण्डप्रशंसा, परपाखण्डसंस्तव इति । तत्र शङ्का द्विविधा-देशत: सर्वतश्च, तत्र देशत: किमयं जीवोऽस्ति वा न वेत्याशङ्कते, सर्वत: पञ्चापि धर्मास्तिकायादय: सन्ति वा न वेति । काङ्गापि सर्व-देशाभ्यां द्विधा, देशतस्तावदार्हतं दर्शनं सुन्दरमिदमपि च सौगतं सुन्दरमिति कृत्वा समाधयितुं युक्तमित्याकाङ्क्षा, इति, सर्वत: सर्वाण्येव दर्शनानि । विचिकित्सा फलं प्रति सन्देह:, यथास्य सदनुष्ठानस्य परलोके फलं किञ्चिद्भविष्यति नवेति विद्वज्जुगुप्सा वा, विद्वान्स: साधवस्तेषां जुगुप्सा निन्दा परपाखण्डप्रशंसा परपाखण्डिश्लाघा, परपाखण्डिसंस्तवस्तत्परिचय इति।।
एवं सम्यक्त्वं प्रतिपद्याऽणुव्रतादीनि व्रतानि प्रतिपद्यते, तद्यथा-स्थूलकं प्राणातिपातं श्रमणोपासक: प्रत्याख्याति द्विविधं त्रिविधेनेत्यादिभङ्गकरचनया, संच प्राणातिपातो द्विविध:, सङ्कल्पत आरम्भतश्च, तत्र सङ्कल्पतो यावजीवतया प्रत्याख्याति, तत्रापि निरपराधस्य प्रत्याख्यानं, न सापराधस्येति, आरम्भज प्राणातिपातं तु न प्रत्याख्यात्येव, स्थूलकप्राणातिपातविरमणस्य श्रमणोपासकेनेमे पञ्चातिचारा ज्ञातव्याः, न समाचरणीयाः, तद्यथा-वधो बन्धश्छविच्छेदोऽतिभारारोपणं भक्तपानव्यवच्छेदश्च, एवं स्थूलमृषावादविरमणादीनि शेषैकादशश्रावकव्रतानि सविस्तरं सूरिणा व्याख्यातानि।
ततो व्याख्यामिमां श्रुत्वा, सूरि मत्वा सुमंगल: । हृष्टचित्तो बभाणैवं, ललाटघटिताञ्जलिः ॥८३।। प्रयच्छानुग्रहं कृत्वा, गृहिधर्मं भदन्त ! मे । कर्तुं नालं यतेधर्मं, चारित्रावरणादहम् ।।८४।। ततो ज्ञात्वा तदाकूतं सूरिणापि तथा कृतम् । ततश्च सूरिमानम्य, गतो गेहे सुमङ्गल:१८५॥ सानन्दो धर्मसम्प्राप्त्या, दिनकृत्यानि चकार स: । कृतार्थं मन्यमान: स्वं, सुष्वाप विधिना निशि॥ प्रातरुत्थाय भूयोऽपि, गत: सूरिपदान्तिकम् । श्रुतो धर्मो जिनाख्यातो भक्तिसारं तदन्तिके ॥८७|| एवं दिने दिने शृण्वन् धर्मं सूरिसमीपके । जातो जीवादितत्त्वेषु विज्ञ: सर्वज्ञशासने ॥८८॥ ततोऽसौ कृतशृङ्गारो, विभूत्या सपरिच्छदः । पञ्चधाभिगमेनैव, याति जैनेन्द्रमन्दिरे ॥८९॥ १ तदन्तिके यदिधर्म न क्षम: कर्तु-BJC I
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466