Book Title: Dharmaratnakarandaka
Author(s): Vardhmansuri, Munichandravijay
Publisher: Shardaben Chimanbhai Educational Research Centre

View full book text
Previous | Next

Page 408
________________ ३८१ प्रयोजनं कथितो मया निजप्रतिज्ञाविशेष:, तेन भणितमस्त्यत्र तावदुपाय:, केवलं सत्त्वसाध्या सिद्धि:, मयोक्तं कीदृशी ? तेनावाच्यष्टोत्तरशतवारं मन्त्राक्षराणि जपित्वा निजशिरसा गिरिकन्दरोदरो नाम यक्ष: पूजयितव्य:, पश्चादसौ सत्त्वानुरूपं वरं वितरति, प्रतिपन्नं तन्मया, गृहीतो मन्त्रः, कृतं बलिविधानं, गतो गिरिकन्दरोदरमन्दिरं, पूजितो यक्ष:, कृतो मन्त्रजाप:, आकृष्टं कोशाद्यमजिह्वाकरालं करवालं, वाहितं निजकन्धरायां, निरुपमसत्त्वगुणावर्जितमानसोऽर्धच्छिन्न एव शिरसि प्रत्यक्षीभूतो यक्ष:, भणितोऽहमनेन भण ते किं प्रियं करोमि ? मया भणितमसूत्रपटकरणसामर्थ्यं देहि ? तेनोक्तं भविष्यति वत्स ! ते चिन्तितम् । तत: सम्पूज्यतं यक्षपरंपरितोषमुद्वहन् समागतोऽहंस्वभवनं, प्रणम्य राजानं निषण्णोऽहमुचितासने, पृष्टोऽहं मन्त्रिणा किं सम्पूर्णा ते प्रतिज्ञा ? मया भणितमेवमेतत् । तत: सकलसभासमक्षं विक्षिप्य गगनाङ्गणे करयुगलं दत्तं देवदुष्योपमं वस्त्रयुगलं नरपतये, एवं मन्त्रिसामन्तादिभ्योऽपि, तुष्टो राजा, गुणग्राहिणी जाता नरपतिसभा, भणितोऽहं- राज्ञा- किं तव प्रियङ्करोमि? मया भणितं वर्षमेकमकरं कुरुष्व जनपदमिमं? प्रतिपन्नं राज्ञा, दत्तश्च प्रवरग्रामपञ्चकसहित: सकलविषयसार:, सुखसङ्गमो नाम मह्यं ग्राम:, वितीर्णश्च यदृच्छाचारः, एवमेषां मे शक्तिरीदृशी जातेति । ततोऽभिनन्दितो मया कुलपुत्रकः, प्रशंसितो बहुप्रकार, प्रस्थितौ तत: स्थानाद् द्वावप्यावां, लविता सप्तरात्रेणाटवी, गतोऽसौ स्वस्थानम्, अहमपि प्रयोजनवशेनात्र समागतः, तदेवं विनापि सूत्रेण दृष्टो मया क्रियमाण: पट:, अर्थोपार्जनमपि व्यवसायिनां नातिदुष्करं, व्यवसायमेव पुरुषाणां गुरुकं भाण्डमूल्यं, यत: आढत्ता सप्पुरिसेहिं, गुरुयववसायदित्तहियएहिं । कज्जारंभा होहिंति, निप्फला किं चिरं कालं ? ॥१॥ मया भणितमेवमेतत्, नास्त्यत्र सन्देहः, निवर्तितोऽहमेतस्मादविधिमरणात्, व्रजामि साम्प्रतं स्वस्थानं, यौगिकेन भणितं वत्सतया गुरुजनपराधीनतया समावर्जितं मे हृदयं, गृहाणेदं स्थावरजङ्गमविषापहारकं प्रधानमणिम्, अनुग्रह इति मन्यमानेन प्रतीच्छितो नागदत्तेन गतो यौगिक: स्वस्थानं, नागदत्तोऽपि निजनगरमागतः, कथित: सर्वोऽपि सविस्तरो निजवृत्तान्तो जनन्या:, तया भणितं वत्स! गच्छतु द्रविणजातं, त्वया विद्यमानेन भूयोऽपि भूरि द्रव्यं भविष्यति, धन्याहं यया पुनरपि तव मुखकमलमवलोकितमिति भणित्वा स्नेहसारं निवेशितो निजोत्सङ्गे, चुम्बितो मूर्धनि नागदत्त:, चिन्तितं तेनाहो स्नेहपरता जननीहृदयानां, अहं पुन: शिलासङ्घातकठिनमानसो यस्तथापकर्ण्य जननी देशान्तरं प्रस्थितः, प्राप्तमिहलोक एव मया दुर्नयफलं, साम्प्रतं परविनयेन समाराधयामि मातरमिति विचिन्त्यैवं चेतसि कृतनिश्चयो मातु: पार्श्ववर्ती प्रतिदिनं पर्युपास्ते, मातरि स्नातायां स्नाति, भुक्तायां भुङ्क्ते, किम्बहुना? सर्वप्रयोजनेष्वपि सततमानुकूल्येनैव वर्तते, एतद् Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466