Book Title: Dharmaratnakarandaka
Author(s): Vardhmansuri, Munichandravijay
Publisher: Shardaben Chimanbhai Educational Research Centre

View full book text
Previous | Next

Page 381
________________ आचार्य श्रीवर्धमानसूरिरचिते स्वोपज्ञटीकासहिते धर्मरत्नकरण्डके मिलिता नागराः सर्वे, पृच्छतां तेन जल्पितम् । मृषावादं महापाप- -मुत्तरं पापकर्मणा ॥ १४९ ॥ बन्दिग्राहं गृहीतोऽह - मेषा निपतिताम्बरे । कृतशब्दा च चौरैस्तै- रसिधेनुकया हता ॥ १५० ॥ सर्वं शृणोमि कर्णाभ्यां पश्यामि न च चक्षुषा । महावेदनया ग्रस्ता, महादुःखेन दुःखिता ॥ १५१ ॥ न जाने किं मयाकारि ?, पुरा जन्मनि पातकम् । येनास्य करलग्नाहं, प्राणैर्भोगैश्च वर्जिता ॥१५२॥ नेत्रेोत्पाटिते किं च, मिलिते यस्य नेत्रयोः । ३५४ करोऽपि किं न छिन्नोऽसौ, लग्नो योऽस्य करे मम || १५३ || न मे श्वगृहं जातं, न जातं पैतृकं गृहम् । न भोगा विरतिर्नैव, गतं जन्म निरर्थकम् ॥ १५४ ॥ हे मातर्हे पितर्भगिनि !, पितृव्यभ्रातृमातुलाः ! । न युष्माकमयं दोषो, दोषोऽयं मम कर्मणाम् ॥ वेदनाविह्वलः कायः, प्राणाः पर्यन्तवर्तिनः । मर्षणीयं तत्सर्वं यन्मया दुष्कृतं कृतम् ॥१५६॥ यदि मे साटिका शुद्धा, निर्मलो दक्षिणः करः । तदा विडम्बनापूर्वं, मरिष्यत्येष पातकी ॥ १५७ ॥ आर्तध्यानसमारूढा, बद्धायुर्गतचेतना । मृत्वा मार्गसमासन्ने, वटेऽथाजनि सारिका ॥ १५८॥ असञ्जातबलौ पक्षौ, संवाहयितुमक्षमा । इतश्चेतश्च बभ्राम, वट एव शनैः शनैः ॥१५९॥ पक्षबले समुत्पन्ने, जाताहं व्योमचारिणी । विद्याधरीव सर्वत्र, सञ्चरामि यथेच्छया ॥ १६०॥ आम्रारामेषु रम्येषु, मृद्वीकामण्डपेषु च । दाडिमीषु च पक्वासु, कृताहारप्रयोजना || १६१ ॥ नदीकूपतडागेषु, निर्झरेषु हदेषु च । पयः पीत्वा मनोहारि, विचरामि यथासुखम् ॥ १६२॥ प्रकृतिरेषास्य पापस्य, विधातुर्विषमा जने । सुस्थं द्रष्टुं न शक्नोति, चिरकालं जनं यतः ॥१६३॥ एकदा वटशाखायां, कृतासनपरिग्रहा । यावत्तिष्ठामि तत्राहं, तावत्तत्र समागतः || १६४ || निषण्णः स वटस्याधो, दत्तं चोल्मुकसन्निभम् । उपरिष्टान्निजं चक्षुः, प्राणा निपतिता मम ॥ १६५ ॥ मूर्छिता पतिता भीता, निस्सहास्यैव मस्तके | मारिता तेन पापेन, मोटयित्वा कृकाटिकाम् ॥१६६॥ भूयोऽपि तिर्यगायुष्कं बद्ध्वा जाता च सारिका । सञ्जातौ कोमलौ पक्षौ, दूरसञ्चरणक्षमौ ॥१६७॥ कथञ्चित्पुण्ययोगेन, प्रविष्टा तव पञ्जरे । एतावन्तं स्थिता कालं, प्रमोदभरनिर्भरा ॥ १६८ ॥ अद्य त्वेष मया दृष्टः, पातकी - पुरुषाधमः । लिम्वदेवो दुरात्मायं, तेनाहं मूर्च्छिता प्रभो ! ॥ १६९ ॥ अजानतेव तेनेदं, लिम्बदेवेन भाषितम् । किमेषा पक्षिणी ब्रूते ?, सभामध्ये निरर्गला ॥ १७० ॥ यन्न भूतं न वा भावि, न च सम्प्रति वर्तते । अन्यथा भवती ब्रूते, 'सच कोऽप्यन्य एव हि ॥ साक्षी न दृश्यते कोऽपि सङ्कीर्णमिव लक्ष्यते । सारिकाह महाराज!, तर्हि शुद्धिं करोम्यहम् ॥ १७२॥ यद्यशुद्धा दहत्वग्निः शुद्धा मुञ्चतु जीवतीम् । ततश्च सत्त्वयोगेन, वह्निशुद्धा विनिर्गता ॥ १७३॥ सारिका सभ्यलोकेन, सर्वेणापि प्रशंसिता । लिम्बदेवो नरेन्द्रेण, दण्डयित्वा विसर्जितः || १७४ ॥ नराणां चरितं श्रुत्वा, कम्पते मे शरीरकम् । अन्यदपि शृणु राजेन्द्र ! पुराणे यन्मया श्रुतम् ॥ १ कोऽप्येषोऽन्यथैव हि BJC | Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466