Book Title: Dharmaratnakarandaka
Author(s): Vardhmansuri, Munichandravijay
Publisher: Shardaben Chimanbhai Educational Research Centre

View full book text
Previous | Next

Page 388
________________ अधिकार १६ / श्लोक २९९-३१० / पुराणोक्तं पुरुषचरित्रम् ८ ३६१ यद्येवं तर्हि ये पुण्यरहितास्तै: किं पादौ प्रसार्य स्थातव्यं मर्तव्यं वा ? एतदपि न, यत:यद्यपि पुरुषाकारो, निरर्थको भवति पुण्यरहितानाम् । त्यक्तव्यो नैवात्मा, यथोचितं तदपि करणीयम्॥ तन्नाथ ! मुञ्च देशान्तरगमनाग्रह, अत्रैव स्थीयतां, त्यज्यतां विषादः, क्रियतां स्वभूमि क्रियतां स्वभूमिकानुसारेण तथाविध: कोऽपि व्यवसाय इति ॥ श्रुत्वा कलहकारिण्या, वचनं कलहप्रिय: । स्थितस्तत्रैव संयम्य, चेतो यात्रासमुत्सुकम् ॥३२५।। अर्थागमनिमित्तानि, ध्यायता द्विजपुत्रिका । स्वल्पाभरणलाभेन, मारिता तेन पापिना ॥३२६॥ अन्यदा क्लिष्टचित्तेन, तेन सा महिषासुरा । महिषासना महारौद्रा, दृष्टा नगरदेवता ॥३२७॥ पाषाणपिण्डिकाहस्त:, प्रविष्टो देवतागृहे । सन्निलीन: स्थितो याव- दन्धकारो विजृम्भित: ।।३२८|| शनैः शनैः समुत्थाय, प्रविश्याभ्यन्तरं ततः । गृहीत्वा दक्षिणे हस्ते, भणिता तेन देवता ॥३२९॥ बन्दिग्राहं गृहीतासि, देवि ! मे देहि सम्पदम् । नो चेदद्य शरीरं ते, खण्डं खण्डं करोम्यहम् ॥३३०॥ देवता काष्ठमौनेन, स्थिता क्षीणा च शर्वरी । न दानं न निदानं च, खण्डखण्डीकृता तत: ॥३३१।। मालाकारेण दृष्टोऽसौ, निर्गच्छन् देवतागृहात् । यामिन्या: पश्चिमे यामे, मलयम्प्रति गच्छता ॥३३२।। तत: सञ्जातशङ्केन, पौरलोकेन शब्दित: । पृष्टश्च किमिदं पाप!, 'कलिप्रिय ! कृतं त्वया ? ॥३३३॥ न कृतं चेत्तदा तूर्णं, प्रत्यापय महाजनम् । भवता भवने देव्या, उषितं केन हेतुना ? ॥३३४|| न च यात्रामहः कोऽपि, न च पूजा कृता त्वया । एकाकी निर्गतस्त्वं हि, रजन्यां केन हेतुना ? | भणत: पुरलोकस्य, किमहं वच्मि सन्मुखम् । भगवत्येव जानाति, यादृशं तादृशं स्फुटम् ॥३३६॥ एतत् श्रुत्वा च कोपान्धा, प्रस्फुरदोष्ठपल्लवा । पूजकस्य जनी जाता, साधिष्ठाना सुदुर्धरा ॥३३७॥ जगाद पुरलोकस्य, पुरत: प्रकटाक्षरैः । भग्ना ह्यनेन पापेन, देवता महिषासुरा ॥३३८॥ बन्दिग्राहं गृहीतासौ, याचितं विपुलं धनम् । अदत्तवचना देवी, ह्यनेनैवंविधा कृता ॥३३९|| ब्राह्मणपुत्रिका सापि, ह्यनेनैव निपातिता । पातकी पापनामाय- मद्रष्टव्यमुख: सताम् ।।३४०॥ ततश्च पुरलोकेन, बद्धोऽयं दृढबन्धनैः । नानाकारं विडम्ब्योच्चैः, प्रापितोन्तकमन्दिरम् ।।३४१॥ सारिकाह महाराज!, श्रुतं पुरुषचेष्टितम् । अकृत्यकारिण: पापा, दूरस्था: सुन्दरा नरा: ।।३४२॥ शुक आह-ज्ञानं दानं क्षमा शौर्य, सत्यशौचादयो गुणा:। नरं विना निराधारा, निस्सारा: सारिके ! स्त्रिय: ॥३४३।। यद्यप्यत्र त्वया भद्रे!, दृष्टान्तत्वेन दर्शिता: । दूरं दुष्कर्मकर्तारो, नरा धनञ्जयादयः ॥३४४।। तथापि स्तोकका एव, सारिके ! ईदृशा नरा: । ये निन्द्यं निघृणं कर्म, कुर्वन्ति कुलजा अपि॥ स्त्रियस्तु बहुधा बढ्यो, ग्रामे ग्रामे पुरे पुरे । गृहे गृहे विलोक्यन्ते, क्रूरा दुष्कर्मकारिका: ॥३४६।। सत्यसन्धा: सदाचारा:, शुद्धशीला: शुभाशया: । अत्यन्तं स्तोकका नार्यो, दृश्यन्तेऽनेकशो नराः ।। १ कलहप्रिय-BJC । २ अनेनै BJC | ३ अनेनै BJCT Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466