________________
अधिकार १६ / श्लोक २९९-३१० / पुराणोक्तं पुरुषचरित्रम् ८
३६१
यद्येवं तर्हि ये पुण्यरहितास्तै: किं पादौ प्रसार्य स्थातव्यं मर्तव्यं वा ? एतदपि न, यत:यद्यपि पुरुषाकारो, निरर्थको भवति पुण्यरहितानाम् । त्यक्तव्यो नैवात्मा, यथोचितं तदपि करणीयम्॥
तन्नाथ ! मुञ्च देशान्तरगमनाग्रह, अत्रैव स्थीयतां, त्यज्यतां विषादः, क्रियतां स्वभूमि
क्रियतां स्वभूमिकानुसारेण तथाविध: कोऽपि व्यवसाय इति ॥ श्रुत्वा कलहकारिण्या, वचनं कलहप्रिय: । स्थितस्तत्रैव संयम्य, चेतो यात्रासमुत्सुकम् ॥३२५।। अर्थागमनिमित्तानि, ध्यायता द्विजपुत्रिका । स्वल्पाभरणलाभेन, मारिता तेन पापिना ॥३२६॥ अन्यदा क्लिष्टचित्तेन, तेन सा महिषासुरा । महिषासना महारौद्रा, दृष्टा नगरदेवता ॥३२७॥ पाषाणपिण्डिकाहस्त:, प्रविष्टो देवतागृहे । सन्निलीन: स्थितो याव- दन्धकारो विजृम्भित: ।।३२८|| शनैः शनैः समुत्थाय, प्रविश्याभ्यन्तरं ततः । गृहीत्वा दक्षिणे हस्ते, भणिता तेन देवता ॥३२९॥ बन्दिग्राहं गृहीतासि, देवि ! मे देहि सम्पदम् । नो चेदद्य शरीरं ते, खण्डं खण्डं करोम्यहम् ॥३३०॥ देवता काष्ठमौनेन, स्थिता क्षीणा च शर्वरी । न दानं न निदानं च, खण्डखण्डीकृता तत: ॥३३१।। मालाकारेण दृष्टोऽसौ, निर्गच्छन् देवतागृहात् । यामिन्या: पश्चिमे यामे, मलयम्प्रति गच्छता ॥३३२।। तत: सञ्जातशङ्केन, पौरलोकेन शब्दित: । पृष्टश्च किमिदं पाप!, 'कलिप्रिय ! कृतं त्वया ? ॥३३३॥ न कृतं चेत्तदा तूर्णं, प्रत्यापय महाजनम् । भवता भवने देव्या, उषितं केन हेतुना ? ॥३३४|| न च यात्रामहः कोऽपि, न च पूजा कृता त्वया । एकाकी निर्गतस्त्वं हि, रजन्यां केन हेतुना ? | भणत: पुरलोकस्य, किमहं वच्मि सन्मुखम् । भगवत्येव जानाति, यादृशं तादृशं स्फुटम् ॥३३६॥ एतत् श्रुत्वा च कोपान्धा, प्रस्फुरदोष्ठपल्लवा । पूजकस्य जनी जाता, साधिष्ठाना सुदुर्धरा ॥३३७॥ जगाद पुरलोकस्य, पुरत: प्रकटाक्षरैः । भग्ना ह्यनेन पापेन, देवता महिषासुरा ॥३३८॥ बन्दिग्राहं गृहीतासौ, याचितं विपुलं धनम् । अदत्तवचना देवी, ह्यनेनैवंविधा कृता ॥३३९|| ब्राह्मणपुत्रिका सापि, ह्यनेनैव निपातिता । पातकी पापनामाय- मद्रष्टव्यमुख: सताम् ।।३४०॥ ततश्च पुरलोकेन, बद्धोऽयं दृढबन्धनैः । नानाकारं विडम्ब्योच्चैः, प्रापितोन्तकमन्दिरम् ।।३४१॥ सारिकाह महाराज!, श्रुतं पुरुषचेष्टितम् । अकृत्यकारिण: पापा, दूरस्था: सुन्दरा नरा: ।।३४२॥ शुक आह-ज्ञानं दानं क्षमा शौर्य, सत्यशौचादयो गुणा:।
नरं विना निराधारा, निस्सारा: सारिके ! स्त्रिय: ॥३४३।। यद्यप्यत्र त्वया भद्रे!, दृष्टान्तत्वेन दर्शिता: । दूरं दुष्कर्मकर्तारो, नरा धनञ्जयादयः ॥३४४।। तथापि स्तोकका एव, सारिके ! ईदृशा नरा: । ये निन्द्यं निघृणं कर्म, कुर्वन्ति कुलजा अपि॥ स्त्रियस्तु बहुधा बढ्यो, ग्रामे ग्रामे पुरे पुरे । गृहे गृहे विलोक्यन्ते, क्रूरा दुष्कर्मकारिका: ॥३४६।। सत्यसन्धा: सदाचारा:, शुद्धशीला: शुभाशया: । अत्यन्तं स्तोकका नार्यो, दृश्यन्तेऽनेकशो नराः ।। १ कलहप्रिय-BJC । २ अनेनै BJC | ३ अनेनै BJCT
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org