________________
३६०
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज़टीकासहिते धर्मरत्नकरण्डके
तुच्छता चार्कतूलस्य, समा समधिकापि वा। चापल्यं मर्कटस्येव, भुजङ्गस्येव दुष्टता ॥३०७|| कातर्यं मूषकस्येव, लोभिनो वा कदर्यता । निष्पुण्यनिर्धनादीनां, सर्वेषां धुरि धार्यते ॥३०८॥ निर्गुणोऽपि गुणाधारं, स्वं वितर्कयति स्वयम् । रूपेण कामदेवोऽहं, कुबेरो धनसम्पदा ॥३०९॥ शिव: शरणागतस्याहं, कृपया मेघसन्निभः । मुनिः प्रशान्तभावेन, बुद्ध्या सुरगुरुरहम् ॥३१०॥ क्षीरनीरधिसङ्काशो, गाम्भीर्येण न संशय: । स्थैर्येण च महामेरु:, शौर्येण च धनञ्जयः ॥३११॥ दानेन कर्णतुल्योऽहं, सत्येन तु युधिष्ठिरः । इत्येवं मन्यते मूढो, विपर्यस्ततया मतेः ॥३१२॥ यथा भर्ता तथा सापि, स्वात्मानं बहु मन्यते । प्रविशन्तं गृहे दृष्ट्वा, कलहेनोपतिष्ठते ॥३१३॥ पितृसत्का गता लक्ष्मी-र्दारिद्रं पृष्ठत: स्थितम् । बहिर्गृहे च सर्वत्र, तृणायाऽपि न गण्यते ॥३१४|| निर्धनो राटिकारी च, सर्वेण परिभूयते । न कुतोऽपि परित्राणं, वचनेनापि जायते ॥३१५।। मुखं वक्ति कुवाक्यानि, सहते च शरीरकम् । भज्यते पड्डकस्यास्यं, बाढमश्नाति शूकरः ॥३१६॥ जनै: कदर्थितो बाढं, दुर्गदारिद्यपीडित: । एकदा भणिता तेन, भार्या कलहकारिणी ॥३१७॥ प्रिये ! देशान्तरं यामो, धनोपार्जनहेतवे । धनहीनो नरो लोके, तृणादपि लघूयते ।।३१८॥ अथ श्रुत्वा वचो भर्तु-र्भाषते कलहप्रिया । दारिद्यं प्रिय ! कस्यापि, किं नश्यति प्रयाणकैः ॥३१९॥ दूरं दूरतरं देशं, दारिद्यभयभीरुक: । लोक: प्रयाति. तत्रापि, दारिद्यं छिद्यते न हि ॥३२०॥ भो: प्रियतम ! पूर्वजन्मार्जितात्मीयप्रचुरतरप्रवरपुण्यश्राग्भारज्वलज्ज्वालावलीकरालदम्भोलिनितिरेव सञ्चूर्ण्यते दुर्गदारिद्यमहामहीधरः, ॥ न देशान्तरगमनै:, प्रार्थनाकरणैर्न च । न चापि परराज्यादि-धनवल्लोकसेवनैः ।।३२१।।
न चापि नीचकर्मसमाश्रयणैर्न च दीनतालम्बनैरिति, यतो निष्पुण्यका दारिद्यमुद्गराघातविदीर्णाखिलमनोरथा द्रव्यार्थिन: सन्तो भ्रमन्ति नानाविधदेशान्तराणि, लयन्ति जलनिधिम्, खनन्ति रोहणगिरिधरणीतलं, विशन्ति विवराणि, कुर्वन्ति परगृहेषु दुष्करकर्माणि, आरम्भयन्ति कृष्यादीननेकान् व्यापारान् शीतवातातपक्षुत्पिपासादिदुःखबातमविगणयन्त: सन्तो धावन्ति तेषु स्थानेषु, तथापि भोजनाच्छादुनमात्रमपि कथञ्चिदेव महता क्लेशेन सम्पद्यते, पूर्वसुकृतकर्माणस्तु यदेव किञ्चिदारभ्यते कृष्यादिकं तदपि चिन्तातिक्रान्तप्रभूततरफलदायि भवति। -
यत:- नूनं समेऽपि यत्ने, भाव्यं यदयस्य तस्य तद्भवति ।
एकस्य विभवलाभ-श्छेदः प्रत्यक्षमपरस्य ॥३२२॥ विकटाटव्यामटनं, शैलारोहणमपांनिधेस्तरणम् ।
क्रियते गुहाप्रवेशो, विहितादधिकं कुतस्तदपि ? ॥३२३॥ १°नै-नापि परप्रर्थनाकरणैः- BJCIT
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org