________________
अधिकार १६ / श्लोक २९९ - ३१० / पुराणोक्तं पुरुष चरित्रम् ८
क्रूरचित्ता सा, गमयामास वासरान् । कामशक्तिक्षयात्क्षीणो, यक्षः प्राप परासुताम् ॥ २८०॥ ततः प्रवेशितः शीघ्रं, माधवो धनलुब्धया । रमते तेन सार्धं सा, गतस्नेहं निरादरम् ॥ २८१॥ करिणीव वनानीता, कालं नयति दुःखिता । [ वियोगेनाथ यक्षस्य, स्नेहमोहविमोहिता] ॥२८२॥ अन्यदा नक्तमेकान्ते, तल्पमारूढयाऽनया । सुदुःखं पठितं चेदं रुदन्त्या व्यक्तभाषया ॥ २८३॥ यथा-" भमरा सुरतरुमंजरिहिं, परिमलु लेवि हयास ।
हियडु फुट्टिवि कह नहि, अह ढंढोलिउं पलास ॥ २८४ ॥
श्रुत्वेदं पठितं रोषा - त्कुट्टिनी हसिता हृदि । पापो मुञ्चति नाद्यापि, हृदयं ते मनः प्रियः ॥ २८५॥ मृता माता ततो जाता, दुःखिता कामकन्दली । चिरं न सहते धाता, सम्बन्धं सह बन्धुभिः ॥ २८६ ॥ अन्यस्मिंश्च दिने सुप्तो, दत्त्वा दीनारविंशतिम् । माधव: कामकन्दल्या, किञ्चिच्चलितमानसः ॥२८७॥ सुखसुप्तां निशि ज्ञात्वा, कृत्वा च गलकर्तनम् । हाटकस्य शतान्यष्टौ द्वौ हारौ द्वे च कुण्डले । २८८ ॥ अङ्ग द्वे कटीसूत्रं, मूषित्वा प्रपलायितः । तत्रैव नगरे विलस- न्नन्यया वेश्यया सह ॥ २८९ ॥ 1 नगरारक्षकैर्दृष्टो, बद्ध्वा राज्ञे समर्पित: । चौरस्त्रीवधकारी च, मारणाय निरूपितः ॥ २९०॥ नराणां चरितं श्रुत्वा, कम्पते मे शरीरकम् । स्त्रियो हि नामभिर्दग्धा नराः कर्मभिरेव च ॥ २९९॥ अन्यदपि महाराज, ! श्रूयतां यन्मया श्रुतम् । कथ्यमानं पुराणेषु, निन्दितं नरचेष्टितम् ॥ २९२॥ अस्ति भद्रपुरे श्रेष्ठी, भद्रो भद्रनिकेतनम् । सुभद्रा गेहिनी तस्य, समस्तगुणमन्दिरम् ॥२९३॥ एकदा च कृतस्नाना, निशीथे सुप्तजागरा । विवदन्तं नरं वक्त्रे, विशन्तं वीक्ष्य शङ्किता ॥ २९४ ॥ ससम्भ्रमा समुत्थाय, सम्प्राप्ता भर्तुरन्तिके । यथा दृष्टस्तथा तस्य, तया स्वप्नो निवेदितः ॥ २९५॥ तेनापि भणिता पुत्रो, 'भावी ते कलहप्रियः । गच्छ भद्रे ! न भेतव्यं, स्वस्थानं समलङ्कुरु ॥ २९६॥ पूर्णकाले प्रसूता सा, जातोऽयं कुलदूषकः । आजन्मतोऽपि दुर्जातो, कलिकारी कुदर्शनः ॥ २९७॥ स्वप्नानुसारतो दत्तं, नामास्य कलहप्रिय: । 'कलहं मूल्यतो लाति, लभते यदि नो मुधा । २९८ । समये समागते पित्रा, समाहूय समर्पितः । कलाचार्यस्य पुत्रोऽयं, कलाग्रहणहेतवे ॥ २९९॥ कलहं कुर्वता तेन, कलाचार्योऽपि खेदितः । तेनाप्युपेक्षितो जातः, सर्वथैव निरक्षरः ||३००|| नाराचवन्न जानाति, गुणागुणपरीक्षणम् । नाराचस्तुलनाकाले कनकोपलयोः समः || ३०१ || समुद्रवणिजः पुत्री, तेनोढा कलिकारिणी । मृता माता पिताप्यस्य, गतः स्मरणशेषताम् ॥ गृहस्वामी ततो जात:, क्रमेण कलहप्रियः । भार्या च कारणं जाता, गृहे कलहकारिणी ॥३०३॥ बहिर्लोकैः समं युद्धं, गृहे च सह भार्यया । सुखं च यदि सुप्तानां, जाग्रतां दुःखमेव च ॥३०४|| विशति न गृहे कोऽपि, श्रमणो ब्राह्मणोऽपि वा । स्वजनो वा सुहृद्वापि, भिक्षायै याचकोऽपि वा ॥ विश्वमुद्वेजयत्येवं, सततं दुष्टचेष्टया । कुरूपाणां परासीमा, मूर्खाणां च धुरि स्थितः ||३०६||
7
१ भविता ते- BJC || २ कलहं स मूं BJC || ३ परिणीता - BJC | ४ नैव विशति गृहे- BJC ||
For Private & Personal Use Only
Jain Education International
३५९
www.jainelibrary.org