________________
३५८
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज़टीकासहिते धर्मरत्नकरण्डके
गता: स्वर्णपुरे केचिद्, भृत्याः सा तैर्निरूपिता । श्वश्वाऽभाणि रुषित्वाऽतो, गता सा पितृमन्दिरे॥ तत: पुम्भिः समागत्य, चन्द्रसाराय साधितम् । रुरोद दुःखित: श्रेष्ठी, सततं करुणस्वरैः ॥२५५॥ वियोगभयभीतेन, मया वै यनुष्ठितम् । विपरीतमिदं जातं, वत्से ! दुर्लभदर्शने ॥२५६।। वञ्चिता कूटजामात्रा, पापेनाहं पदे पदे। चन्द्रलेखागुणान् स्मृत्वा, चक्रन्द कुररीव सा ॥२५७॥ सुताशोकं परित्यज्य, विभाव्य भवभावनाम् । श्रेष्ठी धर्मपरो जातो, यो मृतो मृत एव सः ॥२५८॥ भूषणं चन्द्रकान्ताया, हारित्वा हीनपौरुषः । पुन: स्वर्णपुरे प्राप्तो, गतलज्जो धनञ्जय: ॥२५९।। मृता माता गता सापि, पुण्यश्री: पितृमन्दिरे । गृहं शून्यतरं जातं, धिग्धिग्दुष्पुत्रचेष्टितम् ॥२६०॥ क्वचिद्भुक्तः क्वचित्सुप्तः, क्वचिद्भोजनवर्जित: । क्वचिद् दुःखसमासक्तः, क्वचिन्नखविदारितः ॥२६१।। समयं गमयामास, पुरुषार्थविवर्जितः । निन्दनीय: सतां: शोच्य-स्त्वजागलस्तनोपमः ॥२६२॥ अन्यदा द्यूतकारेण, विसंवादे विसंवदन् । हत: क्षुरिकया मृत्वा, जातो दुर्गतिभाजनम् ॥२६३||
इति द्यूते धनञ्जयदृष्टान्तः ।
अन्यच्च श्रूयतां राजन् ! पुरुषाधमचेष्टितम् ।, श्रुतं मया पुराणेषु, सतां निर्वेदकारणम् ॥२६४॥ श्रीमञ्जीरपुरे रम्ये, काननोद्यानशोभिते । नवयौवनमारूढा, रूढा रूपादिभिर्गुणैः ॥२६५॥ अङ्गोपाङ्गादिलावण्यै, राजधानी मनोभुव: । अन्यजून्मकृतैः पुण्यै-र्लब्धसौभाग्यमञ्जरी॥२६६॥ बभूव सर्वलोकानां, हृदयानन्दकारिणी। कन्दली कामभोगानां, नाम्नापि कामकन्दली॥२६७।। वेश्याचारसमायुक्ता, वेश्या विस्मयकारिणी । सर्ववेश्याशिरोरत्नं, सर्वालङ्कारधारिणी ॥२६८॥ तस्यां वणिक्सुतो रक्तो, यक्षनामा महाधन: । त्यागी भोगी सुसंस्कारो, दत्त्वा दीनारविंशतिम्॥ एवं दिने दिने तस्य, वसतो यान्ति वासरा: । समारूढं तयो: प्रेम-सारं वाचामगोचरम् ॥२७०॥ अन्यदा कुट्टिनी प्रोक्ता, माधवाख्यद्विजन्मना । यथा तुभ्यं प्रयच्छामि, दीनारशतपञ्चकम् ॥२७१।। अष्टादशसरं हारं, सर्वलोकमनोहरम् । मासमेकं मया साधू, वसतां कामकन्दली ॥२७२॥ अक्कयाङ्गीकृतं सर्वं, भणिता निजपुत्रिका । स्थिता साधोमुखी तन्वी, न दत्तमुत्तरं तया ॥२७३॥ नदीकूपतडागानां, यथा साधारणं पयः । वेश्यानां यौवनं वत्से !, सर्वसाधारणं तथा ॥२७४॥ एकपुंसि प्रसक्ता हि, शस्यन्ते कुलयोषितः । सर्वलोककृते वेश्या, वेधसेह विनिर्मिता ॥२७५॥ पत्यन्तरसमासक्ता, निन्द्यन्ते कुलबालिका: । धन्या वत्से! जने वेश्या, पतिलक्षेऽप्यनिन्दिता ॥२७६॥ यदि नार्थेन ते कार्य, मे वचनं विधीयताम् । यथा यक्षस्तथैषोऽपि, रम्यतामन्तरान्तरा ॥२७७॥ अर्थार्थं च सुखार्थं च, रमणी रमते नरम् । अर्थश्च मे गृहेऽप्यस्ति, सुखं यक्षे पुन: स्थितम्॥ मानखण्डनसञ्जात-कोपा माधवसङ्गता । यक्षे च कामकन्दल्या-मुदासीनतया स्थिता ।।२७९।।। १ केचित्तैस्तैस्तत्र नि' JC । केचित्तैस्तत्र नि" B॥ २ मे-BJC ॥ ३ दशविंशति भाटीका राज BJC ॥ ४ वणिक्सुतः सुप्त:-BICH
Jain Educatie
For Private & Personal Use Only
www.jainelibrary.org