________________
अधिकार १६ / श्लोक २९९-३१० / पुराणोक्तं पुरुषचरितम् ७
३५७
दृष्टोऽसौ चन्द्रसारण, सानन्दमवगहितः । तत्प्रौढं व्यसनं जातं, कथं ते वत्स ! साध्यताम् ॥२२६।। हानितो भूषणानां मे, यापि कापि कदर्थना। सापि मे सफला जाता, तात ! ते मुखदर्शनात्॥ पूर्ववत्तिष्ठतस्तस्य, स्नेहगौरवपूर्वकम् । सुखंसुखेन सर्वत्र, व्यतीता: कतिचित्समा: ॥२२८॥ भूयोऽपि च स्मृतं द्यूतं, द्यूतकारा हृदि स्थिता: । विजृम्भिताऽरतिहे, गमनाय कृतं मनः ॥२२९।। न च देव: प्रियो नापि, न माता न पिता गुरु: । द्यूतकारस्य पापस्य, प्रियमेकं दुरोदरम् ॥२३०॥ सन्देशक: समायात:, प्रिये ! स्वर्णपुरान्मम । मातृमातुलसम्बन्धी, शीघ्रमागम्यतामिति ॥२३१॥ तयापि समये सर्वं, चन्द्रसाराय साधितम् । शिवा व: सन्तु पन्थानो, यात भूयोऽपि दर्शनम् ॥२३२॥ 'वस्त्राभूषणं दत्त्वा, चन्द्रलेखा विसर्जिता। स्वल्पेनैव च कालेन, प्राप्ता स्वर्णपुरं पुरम् ।।२३३॥ सहाया वलिता जातो, द्यूतकारे समागतः । द्यूतं रन्तुं समारब्धो, यथा रात्रौ तथा दिवा ॥२३४|| पुण्यश्रीसाटिका सापि, हारिता तेन पापिना । स्वल्पैरेव दिनैर्जातो, रोरराजो धनञ्जय: ॥२३५॥ एकदा भणिता तेन, चन्द्रलेखा निशागमे । प्रिये ! प्रभाते भोक्तव्यं, त्वयोद्याने मया सह ।।२३६।।
प्रतिपन्नं तया सर्वं, कृत: पाको मनोहर: । प्रियेण सह सम्प्राप्ता, कानने जनवर्जिते॥२३७|| भुक्तं च भोजनं भव्यं, पीतं वारि मन:प्रियम् । पुष्पादिसर्वसामग्री, सेविता क्रीडितं चिरम् ॥२३८।। सुखसुप्ता हता तेन, हताशेनार्थलोभत: । हहा ही द्यूतकाराणां, कृत्याकृत्यं न विद्यते ॥२३९।। प्रक्षिप्य विजले कूपे, गृहीत्वाभरणादिकम् । निस्त्रिंशो गृहमागत्य, द्यूतं रन्तुं समुद्यत: ।।२४०॥ जनन्या भणित: किं न, चन्द्रलेखा विलोक्यते ? । गृहे किं न समायाता ?, निर्गता सा ममाग्रतः।। एकाकिन्यपि क्रोधान्धा, गता सा पितृमन्दिरे । मातश्चिन्ता न कर्तव्या, गता तत्र भविष्यति ।।२४२॥ भूयोऽपि निर्धनो जात:, पापकारी धनञ्जयः । विन्ध्याटवी गजेनेव, स्मृता चन्द्रपुरी पुरी ॥२४३।। क्रामन् बृहत्क्रमैः पृथ्वी, चचालासौ गतत्रप: । प्राप्तश्च स क्रमेणैवं, दुष्टात्मा क्रूरमानस: ॥२४॥ चन्द्रलेखां विना दृष्टः, प्रविशंश्चन्द्रकान्तया । पादप्रक्षालनं कृत्वा, पृष्टः साशङ्कचित्तया ॥२४५।। अङ्गोपाङ्गानि दह्यन्ते, स्पन्दते दक्षिणेक्षणम् । कुस्वप्ना वत्स ! दृश्यन्ते, न बहिर्न गृहे सुखम्॥ शरीरे कुशलं वत्स!, वत्साया मे निवेद्यताम् । पृष्टव्यमेतदेवेह, प्राणिनां सुलभापदा ॥२४७॥ पतिं विना गृहे पत्यु-र्वास: स्त्रीणां न सुन्दर: । नैतच्छोभनमाभाति, परं वक्तुं न शक्यते ॥२४८॥ दिष्टया त्वं वर्धसे मात-लघूभूता तवाङ्गजा । सर्वलक्षणसम्पूर्णं, पुत्ररत्नमजीजनत् ॥२४९॥ नामापि निर्मितं तस्य, चन्द्रशेखरसज्ञितम् । आगच्छता च नानीता, शुक्रश्च सन्मुखो यत:।। निशम्येदं कृतानन्दा, चन्द्रकान्ताप्यजायत । दत्ता स्वर्णमयी जिह्वा, जगजनितविस्मया ॥२५१॥ सस्नेहं सादरं स्थित्वा, दिनानि दश पञ्च वा । न युक्तं मे चिरं स्थातुं, गन्तुमेव ममोचितम् ॥२५२।। भूषणं चन्द्रकान्ताया, हृत्वा रात्रौ विनिर्गत: । श्रेष्ठिना जातशङ्केन, कृता पुत्र्या गवेषणा ॥२५॥ १ व्यसनं व्य' J। व्यसनव्यसनं-BC । २ अर्थेन दुःखितं यातं-BJC | ३ वस्त्राभरणादिकं दत्त्वा-BJC I ४ प्रतिपन्नमनया-BICI
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org