________________
३५६
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज्ञटीकासहिते धर्मरत्नकरण्डके
प्रतिपन्नमनेनापि, प्रशस्त तिथिवासरे। कारापितं प्रमोदेन, पाणिग्रहणमङ्गलम् ।।२०२॥ खानपानादिसुस्थस्य, कामभोगान् प्रभुञ्जत: । पुत्रवद् दृश्यमानस्य, गत: काल: कियानपि ।।२०३॥ अन्यदा चिन्तितं तेन, धिक्कष्टं मम जीवितम् । निन्दितं सर्वलोकेऽपि, शिष्टलोके विशेषतः ॥२०॥ द्यूतं च द्यूतकाराच, तस्य चित्ते व्यवस्थिता: । गुप्तिप्रक्षेपतुल्यं हि, पारवश्यं विदुर्बुधा: ॥२०५।। उक्तं च- सोच्छ्वासं मरणं निरग्निदहनं निःशृङ्खलं वन्धनं,
निष्पकं मलिनं विनैव नरकं सैपा महायातना । सेवासअनितं नरस्य सुधियो धिक्पारवश्यं यतः, पञ्चानां सविशेषमेतदपरं पष्ठं महापातकम् ॥२०६॥ स्वभावो नोपदेशेन, शक्यते कर्तुमन्यथा ।
सुतप्तान्यपि तोयानि, पुनर्यान्ति स्वभावताम् ॥२०७॥ साम्प्रतं मुञ्च मां तात !, मनो मे गमनोत्सुकम् । स्वगृहं मातरं भार्यां, द्रष्ट्वा गच्छामि सत्वरम् ॥ जामातुर्भणितं श्रुत्वा, चन्द्रसारेण चिन्तितम् । मन:पूतं करोत्वेष, बलात्कारो न सङ्गतः ।।२०९।। पृष्टा च चन्द्रलेखापि, वत्से ! गन्ता तव प्रिय: । या गतिर्जीवितेशस्य, ममापि ननु सा गतिः॥ वस्त्राभरणादिकं दत्त्वा, ससहाया विसर्जिता । अर्धमार्गे प्रसुप्तेन, चिन्तितं तेन चेतसा ॥२११॥ आभरणेन मे कार्य, न कार्यं चन्द्रलेखया । अन्तर्दृष्टं बहिर्मिष्टं, भणितं कोमलया गिरा ॥२१२॥ एहि कान्ते ! कुरङ्गाक्षि!, कौतुकं दर्शयामि ते । गता सा दर्शितस्तेन, कूपो जलविवर्जितः ॥२१३।। तं पश्यन्ती निराशङ्का, क्षिप्ता तत्रैव तेन सा । भूषणानि समादाय, गत: स्वर्णपुरे पुन: ॥२१४॥ गवेषणां प्रकुर्वाणैः, स्वपुम्भि: सा निरीक्षिता। निष्कासिता तत: कूपा-त्पृष्टा व्यसनकारणम् ॥२१५॥ तयाऽचिन्ति न मे युक्तं, वक्तुं नाथस्य दूषणम् । तेन दुष्टेन दुष्टाहं, साध्वी चानेन साधुना ॥२१६।। य: प्रिय उपकारी च, भूयो येन प्रयोजनम् । कुले जाता न कुर्वन्ति, तस्य मर्मविघट्नम् ॥२१७॥ बन्दिग्राहं गृहीतानि, तस्करैः पापकर्मभि: । भूषणानि समादाय, क्षिप्ताहमन्धकूपके ॥२१८।। आर्यपुत्रश्च तैर्नीतो, बन्दीकृत्य न लक्ष्यते । चन्द्रलेखां समादाय, सहाया: स्वपुरं गताः ॥२१९॥ सङ्कल्प्य कथित: पित्रे, वृत्तान्तश्चन्द्रलेखया। अहो प्राणप्रणाशेऽपि सज्जनाश्चन्दनोपमाः ॥२२०॥
यत:- सुजनो न याति विकृति, परहितनिरतो विनाशकालेऽपि ।
छेदेऽपि चन्दनतरुः, सुरभयति मुखं कुठारस्य ॥२२१॥ भूयो धनञ्जयो जातः, सर्वरोरशिरोमणि: । निन्द्यश्च: सर्वलोकाना-मुद्दण्डद्यूतदोषत: ॥२२२॥ क्षीणोपाय: प्रवृत्तोऽसौ, पुनर्दृष्टेन वर्मना । क्रमेण क्रमता पृथ्वी, प्राप्ता चन्द्रपुरी पुरी ॥२२३।। गृहे च विशता दृष्टा, चन्द्रलेखा गृहाङ्गणे । तयापि च समागत्य, शिक्षितोऽसौ प्रजल्पितुम् ॥२२४।। यन्मया भणितं किञ्चि-द्भाषणीयं त्वयापि तत्। वाक्यभेदो हि दोषाय, गुणायाऽभिन्नवाक्यता॥२२५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org