________________
अधिकार १६ / श्लोक २९९-३१० / पुराणोक्तं पुरुष चरित्रम् ६
३५५
समस्ति स्वर्णसङ्काशं, श्रीसुवर्णपुरं पुरम् । श्रेष्ठी स्वर्णध्वजस्तत्र, कनकथ्रीस्तदेहिनी॥ कालक्रमेण सञ्जात-स्तयो: पुत्रो धनञ्जयः। पुण्यश्रीर्गेहिनी तस्य, गुणरत्नकरण्डिका ॥१७७|| एकदा भ्रमता तेन, विस्तीर्णे भानुमन्दिरे । द्यूतासक्तास्त्रपामुक्ता, द्यूतकारा विलोकिता: ॥१७८॥ कौतुकार्थी गतस्तत्र, दापितं बृहदासनम् । अर्थवान् श्रेष्ठिपुत्रोऽयं, धनदाता धनञ्जयः ॥१७९।। सोऽपि द्यूतं समारब्धो, रन्तुं मुग्धमतित्वत: । हारितं शतमेतेन, दीनासणां गतो गृहे ।।१८०॥ तत्रासौ मञ्चकं लात्वा, सुप्तो विद्राणमानस: । न पिबत्यम्बु नाश्नाति न च जल्पति किञ्चन॥ दीनं श्याममुखं दृष्ट्वा, मात्रा भत्रै निवेदितम् । 'दीनाराणां शतं नाथ!, द्यूते पुत्रेण हारितम् ॥१८२॥ दापितं वारितस्तेन, वत्स! द्यूतं न सङ्गतम् । अधोमुख: क्षणं स्थित्वा, निर्गत: पितृपार्श्वत: ॥१८३॥ द्वितीयेऽह्नि सहस्रं तु, हारित्वा गृहमागतः । दत्तं तदपि तातेन, वारितो न च तिष्ठति ॥१८४|| एवं द्वे त्रीणि चत्वारि, यावल्लक्षोऽपि हारित: । पिताप्यपहृतो धात्रा, धृता मात्रा वधूटिका ॥१८५।। धनञ्जयोऽपि सञ्जातो, गृहस्वामी निरर्गल: । हारयते धनं द्यूते, ददाति प्रतिवासरम् ॥१८६।।। कालेन गच्छता तेन, सदनं निर्धनीकृतम् । मातुश्च शाटिका सापि, हारिता हतकर्मणा ॥१८७|| रजन्यां पश्चिमे यामे, चूतिभ्यो भीतमानस: । दक्षिणां दिशमाश्रित्य, चचालाशु धनञ्जयः ॥१८८। प्रत्यहं गच्छता तेन, प्राप्ता चन्द्रपुरी पुरी। तत्रास्ति चन्द्रसारस्य, ह्यापण: पण्यपूरितः॥१८९॥ दीर्घाध्वश्रमतस्तत्र, निषसाद धनञ्जयः । गच्छता स्वगृहे नीत:, स्नापितो भोजितस्तथा ॥१९०।। अन्यदा प्रनित: कुत्र, कुले त्वं केन हेतुना ? । एकाकी धनहीनश्च, बम्भ्रमीषि महीतले ॥१९१॥ तेनापि कथितं सर्वं, मूलतो निजचेष्टितम् । भणितश्चन्द्रसारण, वत्स! द्यूतं न सङ्गतम् ॥१९२॥ द्यूतमेतन्महापापं, महापापनिबन्धनम् । कुलशीलहरं द्यूतं, द्यूतमर्थहरं परम् ॥१९३॥ सत्यशौचहरं द्यूतं, द्यूतं कीर्तिक्षयङ्करम् । सर्वाविश्वासमूलं हि, द्यूतमाहुर्मनीषिणः ॥१९४।।
यत:-कुलकलंकणु सञ्च-पडिवक्ख गुरुलज्जासोयकरु ।
धम्मविग्घु अत्थपणासणु, जं दाणभोगेहिं रहिओ ॥१९५॥ गालियघायघुम्मंतलोयणु तणु संतावणि कुगइ पडितहिं पि य जूइयमरज्जू ।
जूइं अत्यु जु विढवियई' तिं अत्थिर्हि नवि कज्जू ॥१९६-१९७॥ तवोपदेशतस्तात !, यावजीवमिदं मया । द्यूतं च द्यूतकारैश्च, सङ्गतिः सापि वर्जिता ॥१९८॥ तत: सञ्जाततोषेण, चन्द्रसारेण जल्पितम् । वत्स! ते कथ्यते किञ्चि-त्सावधानेन श्रूयताम् ॥१९९।। अस्त्येका मे सुतामान्या, चन्द्रलेखेति विश्रुता। रूपसौभाग्यसंयुक्ता, चन्द्रकान्तासमुद्भवा।। तद्वियोगमशक्तोऽहं, सोढुं सा हि मम प्रिया। भवते तां प्रयच्छामि, यद्यन्यत्र न गच्छसि ॥२०१॥
१ दीनारशतं-BJI
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org