________________
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज्ञटीकासहिते धर्मरत्नकरण्डके
मिलिता नागराः सर्वे, पृच्छतां तेन जल्पितम् । मृषावादं महापाप- -मुत्तरं पापकर्मणा ॥ १४९ ॥ बन्दिग्राहं गृहीतोऽह - मेषा निपतिताम्बरे । कृतशब्दा च चौरैस्तै- रसिधेनुकया हता ॥ १५० ॥ सर्वं शृणोमि कर्णाभ्यां पश्यामि न च चक्षुषा । महावेदनया ग्रस्ता, महादुःखेन दुःखिता ॥ १५१ ॥ न जाने किं मयाकारि ?, पुरा जन्मनि पातकम् । येनास्य करलग्नाहं, प्राणैर्भोगैश्च वर्जिता ॥१५२॥ नेत्रेोत्पाटिते किं च, मिलिते यस्य नेत्रयोः ।
३५४
करोऽपि किं न छिन्नोऽसौ, लग्नो योऽस्य करे मम || १५३ ||
न मे श्वगृहं जातं, न जातं पैतृकं गृहम् । न भोगा विरतिर्नैव, गतं जन्म निरर्थकम् ॥ १५४ ॥ हे मातर्हे पितर्भगिनि !, पितृव्यभ्रातृमातुलाः ! । न युष्माकमयं दोषो, दोषोऽयं मम कर्मणाम् ॥ वेदनाविह्वलः कायः, प्राणाः पर्यन्तवर्तिनः । मर्षणीयं तत्सर्वं यन्मया दुष्कृतं कृतम् ॥१५६॥ यदि मे साटिका शुद्धा, निर्मलो दक्षिणः करः । तदा विडम्बनापूर्वं, मरिष्यत्येष पातकी ॥ १५७ ॥ आर्तध्यानसमारूढा, बद्धायुर्गतचेतना । मृत्वा मार्गसमासन्ने, वटेऽथाजनि सारिका ॥ १५८॥ असञ्जातबलौ पक्षौ, संवाहयितुमक्षमा । इतश्चेतश्च बभ्राम, वट एव शनैः शनैः ॥१५९॥ पक्षबले समुत्पन्ने, जाताहं व्योमचारिणी । विद्याधरीव सर्वत्र, सञ्चरामि यथेच्छया ॥ १६०॥ आम्रारामेषु रम्येषु, मृद्वीकामण्डपेषु च । दाडिमीषु च पक्वासु, कृताहारप्रयोजना || १६१ ॥ नदीकूपतडागेषु, निर्झरेषु हदेषु च । पयः पीत्वा मनोहारि, विचरामि यथासुखम् ॥ १६२॥ प्रकृतिरेषास्य पापस्य, विधातुर्विषमा जने । सुस्थं द्रष्टुं न शक्नोति, चिरकालं जनं यतः ॥१६३॥ एकदा वटशाखायां, कृतासनपरिग्रहा । यावत्तिष्ठामि तत्राहं, तावत्तत्र समागतः || १६४ || निषण्णः स वटस्याधो, दत्तं चोल्मुकसन्निभम् । उपरिष्टान्निजं चक्षुः, प्राणा निपतिता मम ॥ १६५ ॥ मूर्छिता पतिता भीता, निस्सहास्यैव मस्तके | मारिता तेन पापेन, मोटयित्वा कृकाटिकाम् ॥१६६॥ भूयोऽपि तिर्यगायुष्कं बद्ध्वा जाता च सारिका । सञ्जातौ कोमलौ पक्षौ, दूरसञ्चरणक्षमौ ॥१६७॥ कथञ्चित्पुण्ययोगेन, प्रविष्टा तव पञ्जरे । एतावन्तं स्थिता कालं, प्रमोदभरनिर्भरा ॥ १६८ ॥ अद्य त्वेष मया दृष्टः, पातकी - पुरुषाधमः । लिम्वदेवो दुरात्मायं, तेनाहं मूर्च्छिता प्रभो ! ॥ १६९ ॥ अजानतेव तेनेदं, लिम्बदेवेन भाषितम् । किमेषा पक्षिणी ब्रूते ?, सभामध्ये निरर्गला ॥ १७० ॥ यन्न भूतं न वा भावि, न च सम्प्रति वर्तते । अन्यथा भवती ब्रूते, 'सच कोऽप्यन्य एव हि ॥ साक्षी न दृश्यते कोऽपि सङ्कीर्णमिव लक्ष्यते । सारिकाह महाराज!, तर्हि शुद्धिं करोम्यहम् ॥ १७२॥ यद्यशुद्धा दहत्वग्निः शुद्धा मुञ्चतु जीवतीम् । ततश्च सत्त्वयोगेन, वह्निशुद्धा विनिर्गता ॥ १७३॥ सारिका सभ्यलोकेन, सर्वेणापि प्रशंसिता । लिम्बदेवो नरेन्द्रेण, दण्डयित्वा विसर्जितः || १७४ ॥ नराणां चरितं श्रुत्वा, कम्पते मे शरीरकम् । अन्यदपि शृणु राजेन्द्र ! पुराणे यन्मया श्रुतम् ॥
१ कोऽप्येषोऽन्यथैव हि BJC |
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org