________________
अधिकार १६ / श्लोक २९९ - ३१० / सारिकोक्तं पुरुषचरित्रम् ५
अविचारो जनो ब्रूते, यथाश्रुतपरिग्रहः । अहो पतिव्रता नार्यः, सन्त्यद्यापि पतिव्रताः ॥ १२४॥ श्रुतमेतन्नरेन्द्रेण, शब्दिता निजमन्दिरे । मिलितः पुरलोकोऽपि, हेलया नृपमन्दिरे ॥१२५॥ भणितो मन्त्री नरेन्द्रेण पृष्टव्येयं त्वयाबला । का त्वं च कीदृशं नाम ?, कोऽयं पङ्गुः शिरोगत: ? ॥ 'सर्वं तेनापि सा पृष्टा, तयापीदं प्रजल्पितम् । पूर्वं वसुन्धरा नाम, श्रेष्ठिना मम निर्मितम् ॥१२७॥ द्वितीयं गुणनिष्पन्नं कृतं लोकैः पतिव्रता । भर्तायं गुरुभिर्दत्तो, मस्तकेनोद्यते मया ॥ १२८ ॥ पङ्गुलो वातिकुब्जो वा, काण: कुण्टोऽतिदुर्भगः ।
३५३
सुरूपो वा कुरूपो वा, धनी वा निर्धनोऽपि वा ॥ १२९ ॥
`कुलस्त्रीणामयं धर्मो, यत्पतिर्नैव मुच्यते । शेषा वेश्यासमा नार्यः, सदा स्वार्थपरायणाः ॥ १३०॥ अल्पा कस्तूरिका यद्वत्, स्वल्पं मलयजं यथा । स्वल्पं कश्मीरजं यद्व-तद्वन्नार्यः पतिव्रताः ॥ १३९॥ निशम्येदं महीनाथः, कोपकम्पितकन्धरः । सोपहासं जगादेदं वचो मर्मविघट्टकम् ॥१३२॥ बाहुभ्यः शोणितं पीत- मुरुमांसं च भक्षितम् । भर्ता गङ्गाजले क्षिप्त:, साधु साधु पतिव्रता ॥ १३३ ॥ पापे! शीघ्रं प्रयाहि त्वं, यत्र नो दृश्यसे दृशा । नामापि श्रूयते नैव, यत्र तत्र व्रज द्रुतम् ॥१३४|| स्वपुरान्निजदेशाच्च, भूपेनासौ बहिष्कृता । अहो पामानि पापाना - मिहैव फलदान्यलम् ॥१३५॥ शुकेनाभाणि भूपाल !, श्रुतं स्त्रीणां विचेष्टितम् । स्त्रियो विश्वासघातिन्यः, पापाः पापनिबन्धनम् ॥ यावज्जीवं मया देव!, स्त्रीभि: सङ्गो विवर्जितः । ब्रह्मचर्यं चरिष्यामि, मुक्त्वा स्पर्शनदर्शने ॥ १३७॥ सिंहविक्रमराजेन, रोषारुणितचक्षुषा । महासती महापापा, देशनिर्धाटिता कृता ॥ १३८॥
इति कथानकदृष्टान्तोऽयम्
सारिके ! त्वमपि ब्रूहि, निजमूर्च्छानिबन्धनम् । तयोक्तं शृणु राजेन्द्र! यद्वृत्तं मे शरीरके ॥१३९॥ श्रीशृङ्गारपुरे रम्ये, लिम्बदत्ताभिधो वणिक् । बभूव सद्गुणग्राम - ग्रामणीः करुणापरः ॥१४०॥ लिम्बदेवसुतस्तस्य, कटुर्लोचनचित्तयोः । दौर्भाग्यपुद्गलान् लात्वा, वेधसेह विनिर्मितः ॥ १४१ ॥ अधर्मज्ञोऽकृतज्ञश्च, कलाकौशलवर्जितः । वणिजानां कुले जातो, न वणिग् नापि पामरः ॥ १४२॥ तत्रैव नगरे श्रेष्ठी, सोमदेवाभिधोऽभवत्। प्रियदर्शना तद्भार्या, पुत्रिकाहं सुदर्शना ॥ * ऊढाहं तेन पापेन, लिम्बदत्तस्य सूनुना । यथाकामं करोत्येष, विधिर्नानाविडम्बनाम् ॥१४४॥ अस्याहं वल्लभात्यन्तं, न चासौ मम रोचते । वासः स्वल्पश्च सञ्जात- स्तेन मे श्वशुरालये ॥ १४५ ॥ अन्यां कन्यां पिता नित्यं, गवेषयति सादरम् । न च कोऽपि ददात्यस्य, सदा-सापत्न्यशङ्कया॥ ततश्च भोगलुब्धेन, पापेनेदं विचिन्तितम् । न कोऽपि मे सुतां दद्या - दनया विद्यमानया ॥ १४७॥ ततोऽहं तेन पापेन, सुप्ता क्षुरिकया हता । लोकप्रत्यायनाहेतो - मुधा कोलाहलः कृतः ॥ १४८॥
१ तेनाऽपि पृष्टा सर्वं- BJC | २ कुलकन्यानामयं - BJC । ३ परिणीता - BC | ४ स्वल्पः श्वसुरकुले वासो तत्राऽपि
च न सङ्गम:- BJC Jain Education International
For Private & Personal Use Only
www.jainelibrary.org