________________
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज्ञटीकासहिते धर्मरत्नकरण्डके
'क्षुर्या च कर्तयित्वाथ, वामे बाहौ सिरां ततः । पलाशपत्रनिष्पन्नः, शोणितस्य भृतः पुटः ॥ ९६ ॥ गुटिकान्तरयोगेन, जलवर्णीकृतं तत् । ततः सा पायिता देवी, सञ्जाता स्वस्थमानसा ॥९७॥ भूयः स्तोकान्तरं गत्वा, साऽवोचद्धरणीपतिम् । नाथ! गन्तुं न शक्ताहं, बुभुक्षा बाधतेतराम् ॥९८॥ सितक्षुरिकया कृत्वा, स्वोरुमांसविकर्तनम् । अग्निपक्कं पुटे कृत्वा, तेन तस्यै समर्पितम् ॥ ९९ ॥ तत: भुक्तं तया सर्वं, सञ्जाता गमनक्षमा । लङ्घिता चाटवी प्राप्ता, गङ्गागोदावरी पुरी ॥ १०० ॥ अङ्गुलीयकमादाय, निजाङ्गुल्या महीभृता । सङ्ग्रहीतं गृहं हट्टो, वणिग्धर्मे मनः कृतम् ॥ १०१ ॥ 'व्यवहारं कर्तुमारब्धो, लब्धलाभो दिने दिने । भोजनार्थं गृहे याति, स्वापार्थं च नरेश्वरः ॥ १०२ ॥ अन्यदा भणितो देव्या, कष्टं कष्टेन वासराः । एकाकिन्याः प्रगच्छन्ति, द्वितीयः कोऽपि चिन्त्यताम् ॥ प्रतिपन्नमनेनापि, हट्टमार्गे विलोकितः । पङ्गुर्नराधमः कोऽपि गीत नर्मविचक्षणः || १०४|| आनीय च गृहे मुक्त, एष ते गृहरक्षकः । सहाय: सर्वकार्येषु, देवि! तिष्ठ निराकुला ॥ १०५ ॥ ततो दिने दिने तेन, नर्मणा गीतकर्मणा । तस्या आवर्जितं चित्त- मनाचारे मतिर्गता ॥ १०६ ॥ अनाचारप्रवृत्तानां, तेषां गच्छन्ति वासराः । साशङ्का सा सदा देवी, बम्भ्रमीति दिवानिशम् ॥१०७॥ अनेनावर्जिता लक्ष्मी - र्भोगयोग्यास्ति मे गृहे । यद्ययं म्रियते शल्यं, तदा मम निवर्तते ॥ १०८ ॥ इत्यत्याकुलचित्ता सा, छिद्रान्वेषणतत्परा । आकाशगामिनीकल्पा, कालं नयति दुःखिता ॥ १०९ ॥ अन्यदा भणितो रात्रौ, प्रिय ! प्रातस्त्वया सह । भोक्तव्यं हि मया नूनं, गङ्गाकूलस्थपादपे ॥ ११० ॥ एवमङ्गीकृतं तेन, हृष्टासौ निजमानसे । विधाय पाकं चलिता, भोजनार्थं प्रियान्विता ॥ १११ ॥ भुक्त्वा च तत्र सुप्त्वा च, क्षणमेकमनाकुलम् । ततः क्रीडितुमारब्ध - स्तया सार्धं नराधिपः ॥११२॥ क्षिप्रं क्षिप्रं समागच्छ, प्रिय पश्य कुतूहलम् । जलहस्ती हस्तिना सार्धं, जलान्तर्योध्धुमुद्यतः ॥११३॥ कुत्र कुत्र प्रियेत्येवं, पश्यन्नेष निराकुलः । पृष्ठतः प्रेर्य हस्तेन, क्षिप्तो गङ्गाजले पतिः ॥११४॥ मुधा कोलाहलं कृत्वा, गता सा निजमन्दिरे । निःशङ्का पङ्गुना सार्धं, कामभोगान्निषेवते ॥११५॥ गाङ्गेन श्रोतसा शीघ्र - मुह्यमानो दिवानिशम् । दिनत्रयेण सम्प्राप्तो, राजा सिंहपुरे पुरे ॥ ११६ ॥ निराम्नायो मृतस्तत्र, राजा शूलेन सत्वरम् । जितशत्रुः कृतो राजा, दिव्यैर्मन्त्रिनृपादिभिः ॥११७॥ गुणानुरक्तनिः शेष- मन्त्रिसामन्तमण्डलम् । राज्यं पालयतस्तस्य, वव्रजुर्भूरिवासराः ॥११८॥ इत: सा ज्ञातवृत्तान्तै-र्लोकै राज्ञे निवेदिता । तेनापि हृतसर्वस्वा, पुरादपि बहिष्कृता ॥११९॥ रुदती पङ्गुमादाय, विधाय निजमस्तके । भिक्षां भ्रमितुमारब्धा, प्रतिग्रामं प्रतिगृहम् ॥१२०॥ पडुं भूम्यां विमुच्यैषा, जगाद विशदाक्षरैः । पतिव्रताया मे देहि, भिक्षां येन व्रजाम्यहम् ॥१२१॥ पर्यटन्तीं क्रमेणैषा, ग्रामे ग्रामे पुरे पुरे । कदाचिद्दैवयोगेन, गता सिंहपुरे पुरे ॥१२२॥ तत्रापि पर्यटन्त्येषा, करोति जनविस्मयम् । पतिव्रतेति सर्वत्र, जने रूढिमुपागता ॥ १२३ ॥
T
।
१ शितया क्षुरिकया दत्त्वा BJC | २ BJC व्यापारं - मु.
३५२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org