________________
अधिकार १६ / श्लोक २९९-३१० / वेदोक्तं स्त्रीचरित्रम् ४
३५१
अविरतिर्महापापा, नानाकारं विडम्बिता। निष्कासिता च सा देशा-न्मृत्वा च दुर्गतिं गता ॥७२॥ तथान्यदपि राजेन्द्र !, शृणु स्त्रीणां विचेष्टितम् । यन्मयाकर्णितं वेदे, भण्यमानं मनीषिभिः ॥७३॥
वेदोक्तं स्त्रीचरित्रम्
श्रीवसन्तपुरे राजा, जितशत्रुर्महाबल: । रूपसौभाग्यलावण्य-कलाकौशलमन्दिरम् ।।७४।। प्रीतिपात्रं महादेवी, यथार्था सुकुमारिका। बभूव भूपतेस्तस्य, प्राणेभ्योऽपि प्रिया प्रिया ।।७५॥ तया सार्धं दिवारात्रौ, विषयासक्तमानस: । परित्यक्तान्यकर्तव्यो, गमयामास वासरान् ॥७६।। न चास्थानं न चामन्त्रो, न धर्माधर्मचिन्तनम् । स च तस्यां समासक्तो, विश्वं पश्यति तन्मयम्॥ सीदन्ति राजकार्याणि, हन्यन्ते प्रान्तभूमय: । तस्करास्तरलायन्ते, सर्वं राज्यं विसंस्थुलम् ॥७८॥ मन्त्रितं मन्त्रिसामन्तै-र्नेदमुन्नतिकारणम् । वचनं न करोत्येष, उपाय: कोऽपि चिन्त्यताम् ॥७९॥ हुं ज्ञातं मदिरामत्तः, प्रसुप्तो गाढनिद्रया । नक्तं देव्या समायुक्तो, महाटव्यां विमुच्यते ॥८०॥ प्रतिपन्नमिदं सर्वै-लेखोऽयं लिखित: स्फुट: । कठोराक्षरसंयुक्तो, नि:स्नेहो व्यक्तकाक्षरः ॥८१॥ यदि ते जीवने वाञ्छा, पाता वा शीतलं जलम् । तदा दूरतरे देशे, गन्तव्यमिति निर्णयः ॥८२॥ अन्येद्युर्विहितं सर्वं, यथामन्त्रितमञ्जसा। प्रबुद्धो वीक्षते राजा, कान्तारं त्रासकारणम् ॥८३।। न तद्राज्यं न तद्वेश्म, न सा शय्या मनोहरा। रौद्रशिवशताराव-भीषणेयं महाटवी ॥८४॥ विसर्पत्सिंहशार्दूल-वनमहिषगजाकुला। विसर्प कघूत्कारा, भीषणेयं महाटवी ॥८५।।
प्रिये ! किं मतिमोहो मे ?, किमेतदिन्द्रजालकम् ? ।
स्वप्नो वायं मया दृष्टो, साशङ्कमिव मे मनः ॥८६॥ दृष्टो वस्त्राञ्चले लेखो, वाचितश्च शनैः शनैः । तत: सञ्जातकोपेन, स्मृता तेनासिधेनुका ॥८७॥ विरक्तमन्त्रिसामन्त-दण्डैरेतत्कृतं तव । समूलकाषङ्कशति, विरक्तिरनुजीविनाम् ।।८८॥ कोपं कुर्वनिषिद्धोऽसौ, देव्या कोमलया गिरा। ततश्च वक्तुमारब्धः, श्रूयतां देवि ! मद्वचः ॥८९॥ हस्त्यश्वरथयानानि, किं करिष्यन्ति तानि च । कोष्ठागारादय: सर्वे, देवि! तेऽपि निरर्थकाः ॥१०॥ त्वदायत्ता: प्रिये ! प्राणा, जीवितं यौवनं च मे । संसारसुखसर्वस्वं, त्वमेवैका मम प्रिया ॥९१॥ सहैव राज्यमायात-मागच्छन्त्या त्वया मम । अनुकूलो विधिर्मन्ये, येन त्वं न वियोजिता ॥१२॥ तत: साहसमालम्ब्य, देव्या सार्धं शनैः शनैः । प्राची दिशं समाश्रित्य, चचालाचलमानस: ॥९३।। स्तोकान्तरं गते राज्ञि, मूर्छाच्छादितचेतना । निपपात धरापीठे, नि:सहा सुकुमारिका ॥९४॥ सम्प्राप्तचेतनां राजा, पप्रच्छ मधुराक्षरैः । किं बाधते कुरङ्गाक्षि!, प्राणेश! तृड् विबाधते ॥९५।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org