________________
३५०
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज़टीकासहिते धर्मरत्नकरण्डके
चौरक्षात्रेण तेनैषा, चलिता सत्वरैः पदैः । चौरोऽपि पृष्टतो लग्नो, दूरस्थो यात्यनाकुलः ॥४४॥ सापि वेगेन सम्प्राप्ता, स्मशानेऽशिवसङ्कुले । ज्वलज्ज्वालाकुले रौद्रे, भीरुसन्त्रासकारिणि ॥४५॥ इतस्तत: परिभ्रम्य, वटशाखावलम्बित: । दृष्ट: सोऽप्यनयाभीष्टो, मुक्तः प्राणैरधोमुखः।४६॥ कच्छाबन्धं विधायैषा, गृहीत्वा ज्वलदुल्मुकम् । वटशाखां समारुह्य, धृत्वा रज्जुमुपायत: ।।४७॥ 'क्षिप्तो ह्यसौ महीपीठे, समुत्तीर्णा तत: स्वयम् । स्नपितो वारिणा तेन, विलिप्तश्चन्दनेन च ॥४८॥ बद्धानि दिव्यपुष्पाणि, मस्तके मल्लग्रन्थिना । कर्पूरपूरसन्मिश्री-कृत्य ताम्बूलबीटकम् ॥४९॥ प्रक्षिप्य स्वे मुखे पश्चा-द्विधाय चार्धचर्वितम् । स्वमुखेन मुखे तस्य, क्षिपत्यधरधावनम् ॥५०॥ करोति गाढमालिङ्गं, शेते तेन समं क्षणम् । वेतालश्चिन्तयामास, किमिदं क्रियतेऽनया ॥५१॥ निशीथे प्रेतसङ्कीर्णे, घूकघूत्कारभीषणे। निन्दनीयेऽतिबीभत्से, जीवमुक्तकलेवरे ॥५२।। अहो दृष्टा मया नार्यो, 'ह्यकार्यकरणोद्यता: । परमेतादृशी पापा, न श्रुता नावलोकिता ॥५३॥ करोमि शिक्षणमस्या:, प्रविश्यास्मिन् कलेवरे । वेतालेनेति सञ्चिन्त्य, ततश्चाधरधावनम् ॥५४|| कुर्वन्त्या: खण्डितो मूला-दधरश्चापि नाशिका । कर्णौ विकीर्णतां नीतौ, हहा हसनपूर्वकम् ॥५५॥ वेतालो वटमारूढ-स्तत: सापि तथाविधा । चलिता दृष्टमार्गेण, तस्करोऽपि च पृष्ठतः ॥५६॥ समायात: प्रविष्टश्च, तद्गृहे निश्चल: स्थितः । पश्यामि तावदेतस्या, इदानीमपि चेष्टितम् ।।५७॥ ततो रोदितुमारब्धा, कचाकर्षणपूर्वकम् । ससम्भ्रमा समायाता, पूर्वं माता तत: पिता ।।५८|| दृष्टा तथाविधा पुत्री, पृष्टा वत्से ! किमीदृशम् । कष्टं व्यसनमापनं, तया सङ्कल्प्य जल्पितम् ॥५९।। कुलस्त्रीणामयोग्यं य-त्तदहं कर्म कारिता । न कृतं तन्मया मात-स्तेनायं कुपितो मम ॥६०॥ पादप्रक्षालनासक्ता, वारिता तेन न स्थिता । क्षुर्या तेन च पापेन, अहमेवं विडम्बिता ॥६१|| श्रेष्ठिनात्यन्तरुष्टेन, करे कृत्वा समर्पितः । जामाता राजलोकानां, मोहे नास्ति विचारणा ॥६२॥ वध्यो राज्ञा समादिष्टः, श्मशाने चालितो नरैः । चौरेण चिन्तितं कष्टं, वराको मार्यते मुधा ॥६३॥ यदेषा कुरुते पापा, निजपापस्य गोपनम् । मारापयति भर्तारं, निर्दोषं दोषदूषिता ॥६॥ तदयं रात्रिसम्बन्धी, विफलो मे परिश्रमः । इदं चेतसि सञ्चिन्त्य, प्रकाशं तेन जल्पितम् ॥६५॥ निर्दोषोऽपि वराकोऽयं, मार्यते-केन हेतुना ? । निर्दोषो दोषयुक्तो वा, कथं तद् ज्ञायते त्वया ? ॥ यथावृत्तं तथा सर्वं, जानेऽहं कथयामि च । यद्ययं च पुराधीशो, ह्यभयं मे प्रयच्छति ॥६७॥ श्रुत्वेदं भूमिनाथोऽपि, समाहूय मलिम्लुचम् । अभयं ते न कर्तव्या, शङ्का ब्रूहि निरर्गल: ॥६८|| तेनापि कथितं सर्वं, यथा दृष्टं यथा श्रुतम् । आदितो निधनं याव-द्विस्मितश्च नराधिपः ॥६९।। राजादेशाद्गतश्चौरः, श्मशानं सह मन्त्रिणा । दृष्टास्तत्र मुखेऽनेन, श्रवणाधरनासिका: ॥७०॥ मन्त्रिणा कथितं सर्वं, यथादृष्टं महीभुजे । जामाता मोचितो राज्ञा, तस्करोऽपि विसर्जितः ॥७१।। १ क्षिप्तोऽसौ-BIC | २ अका BJC | ३ यदि दत्ते दर्शनं राजा अभयं-BJC । ४ दृष्टा स च- BC । दृष्टा सर्वे-JI
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org