________________
अधिकार १६ / श्लोक २९९-३१० / पुराणोक्तं स्त्रीचरित्रम् ३
३४९
दृष्टैषा विप्रगेहिन्या, निजतल्पगता सती । गृहीता चाग्रकेशेषु, तयैषा ह्यनया च सा ॥१७॥ कृतरोलं महाघोरं, दुष्टं दुर्वचनाथ्रयम् । कृतहासं सर्वलोकानां, जातमायोधनं तयोः ॥१८॥ हेलया मिलितो लोको, मुष्टो मदनविग्रह: । गृहीतं गृहसारं च, मुक्तैषा श्रेष्ठिलज्जया ॥१९॥ अन्येधुणितो विप्रो, यद्यहं तव वल्लभा । तदैषा वैरिणी पापा, हन्तव्या निजगेहिनी ॥२०॥ प्रतिपन्नमनेनापि, छिद्रान्वेषणतत्परः । नयत्यहानि सक्लिष्ट-चेता मनविग्रहः ॥२१॥ आरामादन्यदा तेन, घटे क्षिप्त्वा महोरग: । आनीत: स्थापितश्चापि, गृहान्तर्गतबुद्धिना ॥२२॥ रजन्यां भणिता भार्या, घटेऽमुत्र मया प्रिये ! । मनोज्ञा मोदका मुक्ता-स्तानानीय ममार्पय ॥२३॥ गता सोद्घाटितं द्वारं, दष्टा सर्पण दक्षिणे। करे कृतमहाक्रन्दा, पतिता विषविह्वला ॥२४॥ 'मुक्ता च तत्क्षणं प्राणै-स्तेन लोकस्य साधितम् । दष्टा भुजङ्गमेनैषा, मृता सम्प्रति लक्ष्यते ॥२५॥ नीता च बन्धुवर्गेण, श्मशाने भस्मसात्कृता । गृहदास्या भणितो विप्र:, "क्व स्वामिंस्तव मोदका:? । शून्यो मया घटो दृष्टो, 'दष्टेयमहिना कथम् ? । तेनोक्तं किं विचारेण ?, नूनं भ्रान्तिर्ममाभवत्॥ दासीतो ज्ञातवृत्तान्तै-बन्धुभिः कृतनिश्चयैः । प्रोक्तं नराधिपस्येदं, भार्या पत्या विनाशिता ॥२८॥
भूपेन शब्दितो विप्रः, किं भार्या घातिता त्वया ?।
स प्राह न मया किन्तु, सर्पदष्टा हि सा मृता ॥२९|| बन्धुभिर्भणितं सत्यं, वाच्यं विप्र ! न कृत्रिमम् । स प्राह शुद्धिराधेया, वचनं न हि केवलम् ॥३०॥ ततस्तस्य गृहाद्दासी, समाहूता समागता। तया तु कथितं सर्वं, यथा तेन कृतं तथा ॥३१॥ सगर्भस्त्रीविघातेन, पापमेकमुपार्जितम् । अलीकेन द्वितीयं च, पाप: पापैर्न तुष्यति ॥३२॥ अरे यदि घटे मुक्ता:, क्व गतास्तव मोदका: । येन दास्या घटो दृष्टो, मोदका नावलोकिता: ॥३३।। विचारचतुरो राजा, विचारकुशला प्रिया। विचारधवल: पुत्रो, विचारधवला सुता ॥३४|| विचारो यदि नात्रापि, तदा कुत्र भविष्यति ? । सावेशमभिधायैवं, बन्धवो मौनमाश्रिता: ॥३५॥ नगरारक्षको राज्ञा, भणितो रक्तचक्षुषा। अरे विनाशयोग्योऽयं, विप्रो मदनविग्रहः ॥३६॥ तेनापि च करे कृत्वा, नीत: श्मशानसन्निधौ । वटे विशालशाखायां, गले बद्ध्वावलम्बित: ॥३७॥ सापि धारिका प्रोक्ता, सोपालम्भं पुन: पुन: । गच्छ वत्से ! न युक्तं ते, स्वभर्तुरपमाननम् ॥३८॥ सापीदं वचनं श्रुत्वा, कृत्वा च भृकुटिं मुखे । प्राह याम्युपरोधेन, सम्प्राप्ता भर्तुरन्तिके ॥३९॥ अनुकूलस्याऽपि तस्यैषा, प्रतिकूलविधायिनी । सोऽपि सुप्तोऽवधीर्येमां, निद्रया सह निस्पृहः ॥४०॥ सद्भावस्नेहसम्पूर्णे, रक्ते रागोऽपि सङ्गत: । विरक्ते च पुना राग:, सेयं पूर्णा विडम्बना ॥४१॥ इतश्चेतश्च निक्षिप्त-लोचनैषा विलोकिता। तस्करेण ततस्तेन, निलीय निभृतं स्थितम् ॥४२।। चन्दनागुरुकर्पूर-पुष्पताम्बूलपूरितम् । पटलं जलपात्रं च, करे कृत्वा विनिर्गता ॥४३॥ १ आनीतो मुक्तो (क्ता-C) मध्ये, गृहस्य गतबुद्धिना-BJC | २ निर्गता-BJC । ३ क्षणेन मुक्ता प्राणै BJCI ४ क्व ते स्वामिन् मो BJC.] ५ किं सर्पणोपजीविता-BJC | ६ कथितं-BICI
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org