________________
३४८
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज्ञटीकासहिते धर्मरत्नकरण्डके
निपात्य जठरं सद्यो, गर्भो निपतितो भुवि । सापि वेदनया ग्रस्ता, पश्चात्तापसमाहता ॥१८१॥ यथावृत्तमवादीदं, भो भो शृण्वन्तु नागरा: ! । कारिताहं द्विजैर्दत्त्वा, दीनारशतपञ्चकम् ॥१८२॥ मयापि पापकारिण्ये-हलोकप्रतिबद्धया । परलोकं परित्यज्य, कृतं पातकमीदृशम् ॥१८३॥ लोक: स्थिरतरो जातो, धर्मे सर्वज्ञभाषिते । पुण्यसारनरेन्द्रेण, ब्राह्मणा करदीकृताः ॥१८४।। गृहीता वेश्यया पुत्री, सा मृता दुर्गतिं गता। काष्ठोऽपि विहृतोऽन्यत्र, प्रकाश्य जिनशासनम् ॥१८५॥
इति काष्ठकथानकं परिसमाप्तम्
पुराणोक्तं स्त्रीचरित्रम् अन्यदपि महीनाथ !, भण्यमानं निशम्यताम् । स्त्रीचरित्रं पुराणेषु, यदवाचि विचक्षणैः ।।१।। शुक: कथितुमारब्धो, राजा शुश्राव सादरम् । भुक्तौ श्रीधर्मराजस्य, लोचनानन्ददायिनी ॥२॥ अमरावतीव शक्रस्य, ह्यस्ति चम्पापुरी पुरी। निधानं सर्वसौख्याना-मास्पदं सर्वसम्पदाम्॥
विचारचतुरो राजा, विचारकुशला प्रिया ।
विचारधवल: पुत्रो, विचारधवला सुता ॥४॥ तत्रैव नगरे श्रेष्ठी, धनो धनदसन्निभ: । बभूव गेहिनी तस्य, धारिका धर्मधारिका ॥५॥ अपारासारसंसार-वृक्षस्य फलसन्निभा । सञ्जाताऽविरतिर्नाम, दुहिता विषकन्दली ॥६॥ सत्यशौचविनिर्मुक्ता, दुर्विनीता दुराशया। दुष्टा दुष्टसमाचारा, मातुरुद्वेगकारिणी ॥७॥ श्रमणं ब्राह्मणं दृष्ट्वा, दूरत: सा पलायते । पातकिनं नरं दृष्ट्वा, हृष्टा भवति मानसे ॥८॥ न युक्तं दूषणं वक्तुं, सतां सदपि सर्वदा । परं श्रुतानुवादोऽयं, 'न तेन दोषहेतवे ॥९॥ कौमार्येऽपि कुशीलत्वा-दलितं शीलमेतया । दीयमाना न केनापि, परिणीता कुलसूनुना ॥१०॥ तत: समानजातीयो, निर्धनो रोरनन्दनः । पित्रा बहुधनं दत्त्वा, गृहजामातृकः कृतः ॥११॥ परिणीतैव तेनैषा, न पुनर्वशवर्तिनी। स्वच्छन्दचारिणी जाता, भर्तुश्च दु:खदायिनी ॥१२॥ त्यक्तकुलक्रमाचारा, स्वैरिणी विटसङ्गता । सत्यशौचबहिर्भूता, निर्मर्यादा निरर्गला ॥१३॥ जानन्नपि न जानाति, पश्यन्नपि न पश्यति । कथितोऽपि करोत्येव, पिता गजनिमीलिकाम् ॥१४॥ सापि सक्तान्यदा विप्र-पुत्रे मदनविग्रहे। अत्यन्तरक्ता सा तत्र, विश्वं पश्यति तन्मयम् ॥१५।। अन्यदा नक्तमानीता, तेनैषा निजमन्दिरे । सुप्ता तत्रैव नि:शङ्का, यावज्जातो दिवाकरः ॥१६॥ १ मु. । तेन नो-J । तेन मो-BC ॥ २ भर्ता मुखनिरीक्षक:-BJC ||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org