________________
अधिकार १६ / श्लोक २९९-३१० / काष्ठश्रेष्ठिकथा २
३४७
अजानितमिदं जात-मचिन्तितमतर्कितम् । पूर्वजन्मकृतस्याय-मुदयः कर्मणां मम ॥१५४|| अत्रान्तरे समायाता, वज्रादासी मन:प्रिया । ज्ञातवृत्तान्तया सर्वं, तया राज्ञे निवेदितम् ॥१५५॥ पुरुषैरानायिता वज्रा, दृष्टा धात्री सुतो नृपः । भर्ता च लोकमध्यस्थ :, कूटदूषणदूषितः ॥१५६॥ अलमत्र विचारेण, ह्यात्मलाघवकारिणा । वज्रा विसर्च्यते दूरं, तातश्चात्रैव धार्यते ॥१५७॥ माता विसर्जिता दूरं, दत्त्वा सम्बलमात्रकम् । स्थितस्तत्रानगारोऽसौ, काष्ठ: कष्टकृदग्रिमः ॥१५८॥ पुण्यसारनृपो नित्य-मप्रमादी जनान्वित: । वन्दनार्थं समभ्येति, शृणोति च जिनोदितम् ॥१५९॥ धर्मं जीवदयासारं, सर्वसत्त्वहितावहम् । स्वर्गापवर्गसंसर्ग-साधकं पापबाधकम् ॥१६०॥ स्वल्पैरेव दिनै राजा, सञ्जातो धर्मकोविदः । जनोऽपि जैनधर्मस्य, कारको बहुशोऽभवत् ॥१६॥ सञ्जातमत्सरैविप्रै-रथान्योन्यं च मन्त्रितम् । तपसा वचसा लोकः, सर्वोऽपि श्रावकीकृतः ॥१६२॥ तदस्य गच्छतो बाढं, छायाभ्रंशं प्रकुर्महे । येन भूयोऽपि लोकोऽयं, स्वं स्वं धर्मं प्रपद्यते ॥१६॥ इत्यालोच्य स्थिता विप्रा, मत्सरच्छन्नबुद्धय: । नास्ति कृत्यमकृत्यं वा, पापोपहतचेतसाम् ॥१६४।। व्यतीते चाथ वर्षौ, प्राणिनां जीवितप्रदे । शरत्काल: समायातो, मलिनत्वापनोदकृत् ॥१६४॥ दिग्यात्राभिमुखा यत्र, भूपा: पङ्कविवर्जिताः । पन्थान: पक्कशस्यका:, सश्रीका ग्रामभूमय: ॥१६५॥ मुमुदिरे बलीवर्दा, ननन्दुः सितपक्षिण: । प्रम्लानं कोकिलैर्यत्र, रेजुर्नक्षत्रराजयः ॥१६६॥ मुनय इव मार्गस्था:, सरित: शालिमञ्जरी। कुलाङ्गनेव नमिताङ्गा, गन्धघ्राणमनोहरा ॥१६७॥ अध:कृतमलान्युच्चै-र्जनतापहराणि च । स्वच्छानि यत्र तोयानि, मनांसीव महात्मनाम् ॥१६८॥ निर्मलो रजनीनाथ:, काशा यत्र चकासति । विबुद्धजलजैर्यत्र, हसन्तीव जलाशया: ॥१६९|| व्यतीते कार्तिके मासे, सर्वलोकमनोहरे । गुणस्थसर्वसाधूनां, विहारकरणोचिते ॥१७०॥ अनुशिष्टिं सर्वलोकानां, दत्त्वा धर्मसमाश्रयाम्। पुण्यसारं नृपं धर्मे, कृत्वा निश्चलमानसम्॥१७१॥ चातुर्मासकमाधाय, निराहारो महामुनिः । बहिर्विचरणाहेतोः, कार्तिक्यामेव निर्गत: ॥१७२।। गतानुगतिका: केचि-त्केचिद्राजानुरोधतः । गुणानुरागत: केचि-तं काष्ठमनुवव्रजु: ॥१७३॥ अत्रान्तरे समायाता, काचिदव्यक्तलिङ्गिनी । सन्निरुद्धय मुनेर्मार्ग, स्थिता दुर्गतिगामिनी ॥१७४।। निर्गतिका निर्द्धनां दीनां, सगर्भा बन्धुवर्जिताम् । न युक्तं नाथ! गन्तुं ते, मां मुक्त्वान्यत्र साम्प्रतम्॥ अवश्यं यदि गन्तव्यं, निर्वाहो मम चिन्त्यताम् । दुःखिताहं यतो नाथ !, गर्भोऽयं स्थापितस्त्वया॥ साधुना भणितं भद्रे!, न युक्तं वक्तुमीदृशम् । उक्तानि हि दुरुक्तानि, दु:खं ददति देहिनाम् ॥१७७॥ असम्बद्धं न वक्तव्यं, लोकद्वयविबाधकम् । सुलभो हि मृषावादो, दुर्लभं सत्यभाषणम् ।।१७८॥ साधवोऽपि यदि जातु, कुर्वतेऽलीकभाषणम् । तदास्मादृशलोकानां, मुद्रिता सत्यसङ्कथा ॥१७९।। अन्यस्त्रीणामिवास्यापि, जन्म योने: प्रजायताम् । मदीयो यद्ययं गर्भो, मिथ्या चेदन्यथा तदा॥१८०॥ १ स्थो असदूषण BIC | R BICI छादिताङ्गा कुलस्त्रीव-मु. । ३ BJC | निराश्रयां तथा दीनां-मु. । ४ पापे!-BJC ||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org